________________
१५८
मलाचारेmammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmir काया-सर्वजीवसमासाः ! विराहणा-विराधना अब्रह्मकारणानि । आलोयणा-आलोचना अत्र दोषशब्दो द्रष्टव्य आलोचनादोषाः साहचर्यात् । सोही-शुद्धयः प्रायश्चित्तानि । यथानुक्रमेण हिंसादय एकविंशतिरतिक्रमणादयश्चत्वारः कायाः शतभेदा विराधना दश आलोचनादोषा दश शुद्धयो दशति संबंध इति ॥ ८॥ .
के ते हिंसादय इत्याशंकायामाह;पाणिवह मुसावादं अदत्त मेहुण परिग्गहं चेव । कोहमदमायलोहा भय अरदि रदी दुगुंछा य ॥९॥ मणवयणकायमंगुल मिच्छादसण पमादो य । पिसुणत्तणमण्णाणं अणिग्गहो इंदियाणं च ॥ १०॥ .
प्राणिवधः मृषावादोऽदत्तं मैथुनं परिग्रहश्चैव । क्रोधमदमायालोभाः भयमरतिरतीः जुगुप्सा च ॥ ९ ॥ मनोवचनकायमंगुलं मिथ्यादर्शनं प्रमादश्च । पिशुनत्वमज्ञानं अनिग्रह इंद्रियाणां च ॥ १० ॥ टीका–पाणिबह-प्राणिवधः प्रमादवतो जीवहिंसनं । मुसाबाद-मृषावादोऽनालोच्य विरुद्धवचनं । अदत्त-अदत्तं परकीयस्याननुमतस्य ग्रहणाभिलाषः । मेहुण-मैथुनं वनितासेवाभिगृद्धिः । परिग्गह-परिग्रहः पापादानोपकरणकांक्षा । चेव-चैव तावत्येव महाव्रतानीति । कोह-कोधश्चंडता। मद-मदो जात्याद्यवलेपः । माय-माया कौटिल्यं । लोह-लोभो वस्तुप्राप्तौ गृद्धिः । भय-भयं त्रस्तता । अरदि-अरतिरुद्वेगः अशुभपरिणामः । रदी-रती रागः कुत्सिताभिलाषः । दुगुंछा जुगुप्सा परगुणासहनं । मणवयणकायमंगुल-मंगुलं पापादानक्रिया तत्प्रत्येकमभिसंबध्यते मनोमंगुलं वाङ्मगुलं कायमंगुलं मनोवाक्कायानां पापक्रियाः । मिच्छादसण-मिथ्याद