SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ शीलगुणाधिकारः। योगादीनां भेदपूर्वकं स्वरूपमाह;तिण्हं सुहसंजोगो जोगो करणं च असुहसंजोगी। आहारादी सण्णा फासादिय इंदिया णेया ॥ ३ ॥ त्रायाणां शुभसंयोगो योगः करणं च अशुभसंयोगः। आहारादयः संज्ञाः स्पर्शनादीनि इंद्रियाणि ज्ञेयानि ॥ ३॥ टीका-तिण्हं-त्रयाणां मनोवाक्कायानां, सुहसंजोगो-शुभेन संयोगः शुभसंयोगः पापक्रियापरिहारपूर्वकशुभकर्मादाननिमित्तव्यापारः सर्वकर्मक्षयनिमित्तवाग्गुप्तिर्योग इत्युच्यते । करणं च-करणं क्रिया परिणामो वा तेषां मनोवाक्कायानां योऽयमशुभेन संयोगस्तत्करणं पापक्रियापरिणामः पापादाननिमित्तव्यापारव्याहारौ च करणमित्युच्यते । आहारादी-आहारादय आहारभयमैथुनपरिग्रहाः,सण्णा-संज्ञा अभिलाषाः,चतुर्विधाशनपानखाद्यस्वाद्यान्याहारः, भयकर्मोदयाच्छरीरवाङ्मनःसंबंधिजीवप्रदेशानामाकुलता भयं, स्त्रीपुंसयोश्चारित्रमोहोदये सति रागपरिणामाविष्टयोः परस्परं स्पर्शनं प्रतीच्छा मैथुनं, गौमहिषीमणिमौक्तिकादीनां चेतनाचेतनानां बाह्यानां आभ्यंतराणां च रागादीनामुपधीनां संरक्षणार्जनसंस्कारादिलक्षणा व्यापृतिः परिग्रहः, आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा चेति। फासादिय-स्पर्शनादीनांद्रयाणि ज्ञेयानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणि ज्ञातव्यानीति ॥ ३॥ पृथिव्यादीनां भेदं स्वरूपं च प्रतिपादयन्नाह;पुढविदगागणिमारुदपत्तेयअणंतकायिया चेव । विगतिगचदुपंचेंदिय भोम्मादि हवंति दस एदे ॥४॥ पृथिव्युदकाग्निमारुतप्रत्येकानंतकायिकाश्चैव । द्वित्रिचतुःपंचेंद्रिया भ्वादयो भवति दशैते ॥४॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy