SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १० संसारे दुःखानुभवमाह;" तत्थ जरामरणभयं दुक्खं पियविप्पओग बीहणयं । अप्पियसंजोगं वि य रोगमहावेदणाओ य ॥ १६ ॥ तत्र जरामरणभयं दुःखं प्रियविप्रयोगं भीषणकं । अप्रियसंयोगमपि च रोगमहावेदनाश्च ॥ १६ ॥ मूलाचारे Wergghug टीका – तत्रैवंविधे संसारे जरामरणभयं जन्मभयं दुःखं, जरामरणभवं जन्मभत्रं वा दुःखं कायिकं वाचिकं मानसिकं, प्रियेण विप्रयोगः पृथग्भाव इष्टवियोगदुःखं, भीषणं च महाभयानकं, अप्रियेण संयोगोऽनिष्टेन सहैकत्र वासोद्भवं दुःखं चाऽपि, रोगान् कासश्वासछर्दिकुष्ठब्याध्यादिजनितवेदनाश्चानुवंतीति संबंधः ॥ १६ ॥ - तथा; जायंतो य मरंतो जलथलखयरेसु तिरियणिरएसु । माणुस्से देवत्ते दुक्खमहस्साणि पप्पादि ॥ १७ ॥ जायमानश्च म्रियमाण: जलस्थलखचरेषु तिर्यङ्करकेषु । मानुषे देवत्वे दुःखसहस्राणि प्राप्नोति ॥ १७ ॥ टीका -- तत्र संसारे जायमानो म्रियमाणश्च जलचरेषु स्थलचरेषु खचरेषु च मध्ये तिर्यक्षु नरकेषु च दुःखसहस्राणि प्राप्नोति, मनुष्यत्वे देवत्वे च पूर्वोक्तानि दुःखसहस्राणि प्राप्नोतीति सम्बन्धः ॥ १७ ॥ तथा; जे भोगा खलु केई देवा माणुस्सिया य अणुभूदा । दुक्खं च णंतखुत्तो णिरए तिरिएसु जोणीसु ॥ १८ ॥ ये भोगाः खलु केचित् दैवा मानुषाश्च अनुभूताः । दुःखं चानंतकृत्वः नरके तिर्यक्षु योनिषु ॥ १८॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy