________________
समयसाराधिकारः।
१२७
टीका-आचार्यकुलं श्रमणसंघ मुक्त्वा यः स्वेच्छया विहरति गच्छति जल्पति चिंतयति श्रमण एकाकी संघाटकरहितः, उपदेशं च दीयमानं यो न गृह्णाति शिक्षा नादत्ते स पापश्रमण इत्युच्यते ॥ ६८॥
तथा;आयरियत्तण तुरिओ पुव्वं सिस्सत्तणं अकाऊणं । . हिंडई ढुंढायरिओ णिरंकुसो मत्तहत्थिव्व ॥ ६९ ॥
आचार्यत्वं त्वरितः पूर्व शिष्यत्वं अकृत्वा हिंडति ढोढाचार्यो निरंकुशो मत्तहस्तीव ॥ ६९ ॥
टीका-आचार्यत्वं कर्तुं त्वरितः पूर्व शिष्यत्वमकृत्वा यः स्वेच्छया हिंडत्त्याचरति भ्रमति च ढोढाचार्यः पूर्वापरविवेकशून्यो यथा निरकुंशो मत्तहस्ती । सोऽपि पापश्रमण इत्यतस्तमपि न सेवेतेति ॥ ६९ ॥
पुनरपि संसर्गजं दोषमाह दृष्टांतेनेति;अंबो णिबत्तणं पत्तो दुरासएण जहा तहा। रामणं मंदसंवेगं अपुट्टघम्म ण सेविज ॥ ७० ॥
आम्रो निवत्वं प्राप्तो दुराश्रयेण यथा तथा। श्रमणं मंदसंवेगं अपुष्टधर्म न सेवेत ॥ ७० ॥
टीका-यथाऽऽम्रवृक्षो दुराश्रयेण निंबत्वं प्राप्तस्तथा श्रमणं मंदसंवेगं । 'धर्मानुरागालसं अपुष्टधर्म समाचारहीनं दुराश्रयेण संजातं न सेवेत नाश्रयेदात्मापि तदाश्रयेण तथाभूतः स्यादिति ॥ ७० ॥
तथा पार्श्वस्थान्नित्यं भेतव्यमिति प्रदर्शयन्नाह;'बिहेदव्वं णिचं दुज्जणवयणा पलोट्टजिब्भस्स । वरणयरणिग्गमं पिव वयणकयारं वहंतस्स ॥ ७१ ॥