________________
५०२
मुलावारेतिस्तथापि यदि कायोत्सर्गः क्रियते स मालदोषः, तथा शबर. वधुरिव जंघाभ्यां जघने निपीडय कायोत्सर्गेण तिष्ठति तस्य शवरवधूदोषः, तथा निगडपीडित इव पादयोर्महदन्तरालं कृत्वा यस्तिष्ठति कायोत्सर्गेण तस्य निगडदोषः, तथा लंब. मानो नाभेरूलभागो भवति वाकायोत्सर्गस्थस्योगमनमधोनमनं वाच भवति तस्य लंबोत्तरदोषो भवति तथा यस्य कायोत्सगैस्यस्य स्तनयोष्टिरात्मीयौ स्तनौ यः पश्यति तस्य स्तनह. ष्टिनामा दोषः तथा यः कायोत्सर्गस्थो वायस इव काक इव पार्श्व पश्यति तस्य वायसदोषस्तथा यः खलीनपीडितोऽश्व इव दन्तकटकटं मस्तकं कृत्वा कायोत्सर्ग कराति तस्य खलीनदोषः, तथा यो युगनिपीडितवलीवर्दवत् ग्रीवां प्रसार्य तिष्ठति कायोत्सर्गेण तस्य युगदोषः, तथा य: कपित्थफलवन्मुष्टि कृत्वा कायोत्सर्गेण तिष्ठति तस्य कपित्थदोषः १७१
तथासीसपकंपिय मुइयं ___ अंगुलि भूविकार वारुणीपेयी । काओसग्गेण ठिदो
एदे दोसे परिहरेजो ॥१७२॥ शिरःप्रकंपितं मुकत्वं
अंगुलिभ्रूविकारः वारुणीपायी।