________________
षडावश्यकाधिकारः ॥७॥
४७१ लोचयेत् गुरवेऽपराधाभिवेदयेत् सुविहितः स्वच्छवृत्तिः ऋद्धिगौरवं रसगौरवं मान च जात्यादिमदं मुक्त्वा परित्यज्यैवं गुरवे स्वव्रतातीचाराभिवेदयेदिति ॥ १२१ ॥
पालोचनाप्रकारमाहआलोचणं दिवसियंरादिअइरियापधं च बोद्धव्वं पक्खिय चादुम्मासिय संवच्छरमुत्तमहं च १२२ आलोचनं देवसिकं रात्रिकं ईर्यापथं च बोधव्यं । पाक्षिकं चातुर्मासिकं सांवत्सरिकमुत्तमार्थ च ॥ १२२
आलोचनं गुरवेऽपराधनिवेदनं अहद्भट्टारकस्याग्रतः स्वा. पराधाविष्करणं वा स्वचित्तेऽपराधानामनवगृहनं, दिवसे भवं दैवसिकं रात्रौ भवं रात्रिक ईर्यापथे भवमैर्यापथिक बोदव्यं पक्षे भवं पाक्षिक चतुषु मासेषु भवं चातुर्मासिक संवत्सरे भवं सांवत्सरिकं उत्तमार्थे भवमौत्तमार्थ च दिवसरात्रीर्यापथपक्षचतुर्माससंवत्सरोत्तमार्थविषयजातापराधानां गुर्वादिभ्यो निवेदनं सप्तप्रकारमालोचनं वेदितव्यमिति ॥ १२२ ।। ....
आलोचनीयमाहअणाभोगकिदं कम्मं जंकिंवि मणसा कदं। तंसव्वं आलोचेजहुअब्बाखित्तेण चेदसा १२३ अनाभोगकृतं कर्म यत् किमपि मनसा कृतं ।