________________
षडावश्यकाधिकारः ॥ ७॥
४६६ सच्चिचाचित्तमिस्सियं तिविहं । खेतं च गिहादीयं
कालो दिवसादिकालमि॥११९॥ प्रतिकमितव्यं द्रव्यं सचित्ताचित्तमिश्रकं त्रिविधं । क्षेत्रं च गृहादिकं कालः दिवसादिकाले ॥११९ ॥
प्रतिक्रमितव्यं परित्यजनीयं किं तत् द्रव्यं सचित्ताचितमिश्रभेदेन त्रिविधं सह चित्तन वर्चत इति सचित्तं द्विपदचतुष्पदाधचित्तं - सुवर्णरूप्यलोहादिपिकं वस्त्रादियुक्तद्विपदादि तथा क्षेत्रं गृहपत्तनकूपवाप्यादिकं प्रतिक्रमितव्यं तथा कालो दिवसमुहूर्तरात्रिवर्षाकालादिः प्रतिक्रमितव्यः येन द्रव्येण क्षेत्रण कालेन वा पापागमो भवति तत् द्रव्यं क्षेत्रंस कालः परिहरणीया द्रव्यक्षेत्रकालाश्रितदोषाभाव इत्यर्थः । काले च प्रतिक्रमितव्यं यस्मिन् काले च प्रतिक्रमणमुक्तं तस्मिन् काले कर्तव्यमिति, अथ वा कालेऽष्टमीचतुर्दशीनंदीश्वरादिके द्रव्यं क्षेत्रं प्रतिक्रमितव्यं कालश्च दिवसादिः प्रतिक्रमितव्य उपवासादिरूपेण, अथवा 'भावो हि' पाठान्तरं भावश्च प्रतितिक्रमितव्य इति । अप्रासुकद्रव्यक्षेत्रकालभावास्त्याज्यास्तद्वारेणातीचाराश्च परिहरणीया इति ॥ ११९ ॥
भावप्रतिक्रमणपाहमिच्छत्तपडिक्कमणं तह चेव असंजमे पडिक्कमणं ।