SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ मूलाचारे अचेलकत्वस्वरूपप्रतिपादनायोचर सूत्रमाहवत्थाजिणवकेण य अहवा पचाइणा असंवरणं । णिब्भूसण णिग्गंथं अचेलकं जगदि पूजं ॥३०॥ वस्त्राजिनवल्कैश्व अथवा पत्रादिना असंवरणं । निर्भूषणं निर्ग्रथं आचेलक्यं जगति पूज्यम् ॥ ३० ॥ वस्थाजिव केण - वस्त्रं पटचीवरकम्बलादिकं, अजिनं चर्म मृगव्याघ्रादिसमुद्भवं, वल्कं वृक्षादित्वक्, वस्त्रं वाजिनं च वल्कं च वस्त्राजिनवल्कानि तैर्वस्त्राजिनवल्कैः पटचीवरचर्मवल्कलैरपि । अडवा - श्रथवा । पत्ताइणा - पत्रमादिर्येषां तानि पत्रादीनि तैः पत्रादिभिः पत्रबालतृणादिभिरसंवरणमनावरणमनाच्छादनं । णिब्भूसणं- भूषणानि कटककेयूरहारमुकुटाद्याभरणमंडन विलेपनधूप नादीनि तेभ्यो निर्गतं निर्भूषणं सर्वरागांगविकाराभावः । णिग्गंथं ग्रन्थेभ्य: संयम विनाशकद्रव्येभ्यो निर्गतं निर्मयं वाह्याभ्यन्तरपरिग्रहाभावः । अच्चे लवकं - अचेलकत्वं चेलं वस्त्रं तस्य मनोवाक्कायैः संवरणार्थमग्रहणं जगदिपुज्जं - जगतिपूज्यं महापुरुषाभिप्रेतवंदनीयम् । वस्त्राजिनवल्कलैः पत्रादिभिर्वा यदसंवरणं निग्रन्थं निर्भूषणं च तदचेलकत्वं व्रतं जगति पूज्यं भवतीत्यर्थः । अथ वस्त्रादिषु सत्सु को दोषः इति चेन्न हिंसार्जनप्रक्षालनयाचनादिदोषमसंगात्, ध्यानादिविघ्नाति ॥ ३८ म
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy