________________
षडावश्यकाधिकारः ॥ ७ ॥
४२३
1
न्धाभावाच्च । धर्माधर्माकाशान्येकरूपाणि सर्वदा प्रदेशविघा - ताभावात् । शेषाः संसारिजीवपुद्गलकाला अनेकरूपाः प्र देशानां भेददर्शनात् । श्राकाशं क्षेत्र सर्वपदार्थानामाधारत्वात् । शेषा जीवपुद्गलधर्माधर्मकाला क्षेत्राणि श्रवगाहनलक्षणाभावात् । जीवपुद्गलाः क्रियावन्तो गतेदर्शनात् शेषा धर्माधर्माकाशकाला अक्रियावन्तो गतिक्रियाया श्रभावदर्शनात् । नित्या धर्माधर्मा काशपरमार्थकाला व्यवहार नयापेक्षया व्यञ्जनपर्यायाभावमपेक्ष्य विनाशाभावात् । जीवपुद्रला अनित्या व्यन्जनयदर्शनात् । कारणानि पुद्गलधमधर्मकालाकाशानि जीवोपकारकत्वेन वृत्तत्वात् । जीवोऽकारणं स्वतंत्रत्वात् । जीवः कर्ता शुभाशुभ भोक्तृत्वात् । शेषा धर्माधर्मपुद्गलाकाशकाला कर्तारः शुभाशुभ भोक्तृत्वाभावात् आकाशं सर्वगतं सर्वत्रोपलभ्यमानत्वात् । शेषाण्य सर्वगतान जीवपुद्गलधर्माधर्म कालद्रव्याणि सर्वत्रोपलं भाभावात् । तम्मा-: परिणामजीव मूर्त सप्रदेश क क्षेत्र क्रियावन्नित्यकारणकर्तृ सर्वग - तिस्वरूपेण द्रव्यलोकं जानीहि, इतरैश्चापरिणामादिभिः प्रदेशैः द्रव्यलोकं जानीहीति सम्बन्धः ॥ ४८ ॥ क्षेत्रलोकस्वरूपं विवृरावमाह -
आयासं सपदेशं उड्ढमहो तिरियलोगं च । खेचलोग वियाणाहि अणंतजिणदेसिदं ॥ ४९ ॥ आकाशं सप्रदेशं ऊर्ध्वमधः तिर्यग्लोकं च ।