________________
पिंडशुदयधिकारः ॥६॥ ३६१ आहूय साधितव्या विद्यामंत्रः भवेत् दोषः ॥ ४॥
पाहारदात्री भोजनदानशीला देवता व्यंतरदेवान विद्यया मंत्रेण चाहूयानीय साधितव्यास्तासां साधनं क्रियते यदानार्य स विद्यादोषो मंत्रदोषश्च भवति । अथवाऽऽहारदायकानां निमित्तं विद्यया मंत्रेण बाहूय देवतानां साधितव्यं साधनं क्रियते यत् स विद्यामंत्रदोषः । अस्य च पूर्वयोर्विद्यामंत्रदोषयोर्मध्ये निपातः इति कृत्वा नायं पृथग्दोषः पठितस्तयोरन्तर्भावादिति ॥ ४०॥ चूर्णदोषमाहणेत्तस्संजणचुण्णं
भूसणचुण्णं च गचसोभयरं। चुण्णं तेणुप्पादो
चुण्णयदोसो हवदि एसो॥४१॥ नेत्रयोरंजनचूर्णं भूषणचूर्ण च गात्रशोभाकरं । चूर्ण तेनोत्पादः चूर्णदोषो भवति एषः॥४१॥
नेत्रयोरञ्जनं चूर्ण चतुषोर्निर्मलीकरणनिमित्तमञ्जनं द्रव्यरजः । तथा भूषणनिमित्तं चूर्ण येन चूर्णेन तिलकपत्रस्थत्यादयः क्रियन्ते तद्भूषणद्रव्यरजः । गात्रस्य शरीरस्य शोभाकरं च चूर्ण येन चूर्णेन शरीरस्य दीप्त्यादयो भवन्ति