SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ मूलगुणाधिकारः। न्यस्याश्रुतत्वात्तेषामेव ग्रहणम् । तिसुद्धिपणमो-तिस्रश्च ताः शुद्धयश्च त्रिशुद्धयस्ताभिः त्रिशुद्धिभिः प्रणामः त्रिशुद्धिपणाम: मनोवाकायशुद्धिभिः स्तुतेः करणं । थवो स्तवः, चतुर्विशतितीर्थकरस्तुतिः, नामैकदेशेऽपि शब्दस्य प्रवर्तनात् यथा सत्यभामा भामा, भीभो भीमसेनः। एवं चतुर्विशतिस्तवः स्तवः। ऐयो-ज्ञातव्यः । ऋषभादिजिनवगणां नामनिरुक्तिं गुणानुकीतनं च कृत्वा योऽयं मनावचनकायशुद्धया प्रणामः स चतुर्विंशतिस्तव इत्यर्थः । बन्दनास्वरूपं निरूपयन्नाहअरहंतसिद्धपडिमातवसुदगुणगुरुगुरूण रादीणं। किदियम्मणिदरेण यतियरणसंकोचणं पणमो॥ अर्हत्सिद्धप्रतिमातपःश्रुतगुणगुरुगुरूणां राधीनाम् । कृतकर्मणा इतरेण च त्रिकरणसंकोचनं प्रणामः॥ ___अहंतसिद्धपडिया-अर्हन्तश्च सिद्धाश्चाईसिद्धास्तेपामर्हसिद्धानां प्रतिया अर्हत्मिद्धपतिमा अर्हत्सिद्धपतिविम्बानि स्वरूपेण चाहन्तः घातिकर्मक्षयादर्हन्तः, अष्टविधकर्मक्षयासिद्धाः। अथवा गतिवचनस्थानभेदात्तयोर्भेदः, अष्टमहाप्रातिहार्यमपन्विता अर्हत्पतिमा, तद्रहिता सिद्धपतिमा । अथवा कृत्रिमा यास्ता अर्हत्यतिमा:, अकृत्रिमाः सिद्धप्रतिमाः । तव १ श्रुतादेरप्रस्तावत्वात् ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy