SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २८० मुलाचारेअनशनं पुनरित्तिरिययावज्जीवमेदाभ्यां द्विविध ज्ञातव्यं . इत्तिरियं साकांक्षं कालादिभिः सापेक्षं एतावन्तं कालमहमशनादिकं नानुतिष्ठामीति । निराकांक्ष भवेद् द्वितीयं यावज्जीवं आ मरणान्तादपि न सेवनम् ॥ १५ ॥ साकांक्षानशनस्य स्वरूपं निरूपयन्नाहछट्ठमदसमदुवा दसेहिं मासद्धमासखमणाणि । कणगेगावलिआदी तवोविहाणाणि णाहारे ॥१५॥ षष्ठाष्टदशमहादशैः मासार्धमासक्षमणानि । कनकैकावल्यादीनि तपोविधानानि अनाहारे १५१ अहोरात्रस्य मध्ये द्वे भक्तवेले तत्रैकस्यां भक्तवेलायां भोजनमेकस्याः परित्याग एकभक्तः । चतसृणां भक्तवेलानां परित्यागे चतुर्थः । षगणां भक्तवेलानां परित्यागे षष्ठो द्विदिनपरित्यागः । अष्टानां परित्यागेष्टमस्त्रय उपवासाः । दशानां त्यागे दशमश्चत्वार उपवासाः । द्वादशानां परित्यागे द्वादशः पंचोपवासाः । मासार्ध-पंचदशोपवासा: पंचदशदिनान्याहारपरित्यागः । मास-मासोपवासा-विशदहोरात्रमात्रा अशनत्यागः । क्षमणान्युपवासाः । श्रावलीशब्दः प्रत्येकमभि
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy