SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ मूलाधारेयदि शकः इच्छेत् जंबूद्वीपं हि परिवर्तयेत् ॥११५॥ ___ यदि नामैतदेवमिच्छेत्, एवं कुर्यात् यदेतत्संभावना सत्यं । संभाव्यत इति संभावना । सा द्विविधाभिनीतानभिनीतभेदेन । शवयानुष्ठानामिनीता । अस्ति सामर्थ्य यदुत नाम तथा न सम्पादयेदभिनीता । यथा यदि नाम शक्र इच्छेज्जम्बूद्वीपं परिवर्तयेत् । संभाव्यत एतत्सामर्थ्यमिन्द्रस्य यजम्बूद्वीपमन्यथा कुर्यात् । अपि शिरसा पवर्त भिन्यात् । सर्वमेतदनभिनीता संभावना सत्यं । अपि भवान् प्रस्थं भक्षयेत् । बाहुभ्यां गंगा तरेदेतदभिनीतं सम्भावनासत्यमिति सम्पाद्यासम्पायभेदेनेति ॥ ११५॥ हिंसादिदोसविजुदं सच्चमकप्पियवि भावदो भावं ओवम्मेण दु सचं जाणसु पलिदोवमादीया ११६ हिंसादिदोषवियुतं सत्यमकल्पितमपि भावतोभावं । औपम्येन तु सत्यं जानीहि पल्योपमादिकं ॥११६॥ हिंसा प्रादिषां दोषाणां ते हिंसादयस्तै युक्तं विरहितं हिंसादिदोषवियुक्तं । हिंसास्तैन्याब्रम्हपरिग्रहादिग्राहकवचनरहितं सत्यं । अकल्पितमपि भावनोऽ योग्यमपि भावयतः परमार्थतः सत्यं तत् । केनचित् पृष्टस्त्वया चौरा दृष्टो न मया दृष्ट एवं वक्तव्य । यद्यपि वचनमेतदेवासत्यं तथापि परमार्थतः सत्यं हिंसादिदोषरहितत्वात् । यथा येन येन
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy