________________
पंचाचाराधिकारः ॥५॥
२३१ कलहादिधूम्रकेतुः धरणीकंपश्च अभ्रगर्जं च । इत्येवमादिबहुका स्वाध्याये वर्जिता दोषाः॥ ७८ ॥
कलहः क्रोधाद्याविष्टानां वचनप्रतिवचनैजल्पः महोपद्रवरूपः । धादिशब्देन खङ्ग-कृपाणी-लकुटादिभियुद्धानि परगृह्यन्ते । धूमकेतुर्गगने धूमाकाररेखाया दर्शन । धरणीकम्प पर्वतपासादादिसमन्विताया भूमेश्चलनं । चकारेण शोणितादिवर्षस्य ग्रहणं । अभ्रगर्जनं मेघध्वनिः । चकारेण महावातानिदाहादयः परिगृह्यन्ते । इत्येवमायन्येऽपि बहवः स्वाध्यायकाले वर्जिताः परिहरणीया दोषाः सर्वलोकानामुपद्रवहेतुत्वात् । एते कालशुद्धयां क्रियमाणायां दोषाः पठनोपाध्यायसंघराष्ट्रराजादिविप्रकारिणो यत्नेन त्याज्या इति ॥७८॥
कालशुद्धिं विधाय द्रव्यक्षेत्रभावशुद्धयर्थमाहरुहिरादिपूयमंसं दवे खेचे सदहत्थपरिमाणं । .. कोषादिसंकिलेसा भावविसोही पढणकाले ७९ रुधिरादि पूतिमांसं द्रव्ये क्षेत्रे शतहस्तपरिमाणं । क्रोधादिसंक्लेशो भावविशुद्धिः पठनकाले ॥ ७९ ॥
रुधिरं रक्तं । आदिशब्देनाशुचिशुक्रास्थित्रणादीनि परिगृह्यन्ते, पूर्य-कुथितक्लेदः । मांसं आई पंचेन्द्रियावयवः । द्रव्ये आत्मशरीरे-न्यशरीरे (ण) वैतानि वर्जनीयानि । क्षेत्रे