SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ मूलगुणाधिकारू। नोवाक्कायैः सर्वथा त्यागः । इतरेषु च संयमाधुपकरणेषु च असङ्गमतिमूर्छारहितत्वमित्येतदसङ्गव्रतमिति ॥ पंचमहाव्रतानां स्वरूपं भेदं च निरूप्य पंचसमितीनां भेदं स्वरूपं च निरूपयन्नाहइरिया भासा एसण णिक्खेवादाणमेव समिदीओ पदिठावणिया य तहा उच्चारादीण पंचविहा १० ईर्या भाषा एषणा निक्षेपादानमेव समितयः । प्रतिष्ठापनिका च तथा उच्चारादीनां पंचविधाः॥१०॥ 6. इरिया-ईर्या गमनागमनादिकं भासा-भाषा वचनं सत्यमृषा-सत्यमृषाऽसत्यमृषामवृत्तिकारणम् । एसणा-एषणा चतुर्विधाहारग्रहगत्तिः । णिक्खेवादाणं-निक्षेपो गृहीतस्य संस्थापनं पादानं स्थितस्य ग्रहणं निक्षेपादाने एवकारोऽ. वधारणार्थः। समिदीओ-समितयः सम्यक्प्रवृत्तयः। समितिशब्दः प्रत्येकमभिसम्बध्यते, ईर्यायाः समितिः ईर्यासमितिः सम्यगवलोकनं समाहितचित्तस्य प्रयत्नेन गमनागमनादिकम् । भाषायाः समतिः भाषासमितिः श्रुतधर्माविरोधेन पूर्वापरविवेकसहितमनिष्ठुरादिवचनम् । एषणायाः समितिरेषणासमितिः लोकजुगुप्सादिपरिहीनविशुद्धपिण्डग्रहणम् । निक्षेपादानयोः समितिनिक्षेपादानसमितिश्चतुःपिच्छकतिलेखनपूर्वकसयत्न ग्रहणनिक्षेपादिः । पइठावणिगा य-प्रतिष्ठापनिका च, अत्रापि समितिशब्दः सम्बन्धनीयः, प्रतिष्ठापनासमितिर्जन्तुविक
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy