________________
पंचाचाराधिकारः ॥ ५ ॥
E
-पणकं भूमिगतं शैवलं इष्टकादिप्रभवा कायिका । केग- आलस्नकछत्राणि शुक्लहरितनीलरूपाणि अपस्कारोद्भवानि | कवगो - श्रृंगालम्बकच्छत्राणि जटाकाराणि । कुहणो - आहारकांजिकादिगतपुष्पिका | वादराकाया-स्थूलकायाः अन्तर्दीपकत्वात् सर्वैरतीतपृथिव्यादिभिः सह सम्बध्यते सर्वे -- पि पृथिवीकायिकादयो वनस्पतिपर्यन्ता व्याख्यातप्रकाराः स्थूलकाया इति । सूक्ष्मकायप्रतिपादनार्थमाह सव्वेपि सर्वे पि पृथिव्यादिभेदा वनस्पतिभेदाच सुहुमकाया - सूक्ष्मकायाश्चांगुला संख्यात भागशरीराः । सव्वत्थ- सर्वत्र सर्वस्मिन्लोके । जलत्थलागासे - जले स्थले आकाशे च । एते पृथिव्यादयो वनस्पतिपर्यन्ता वादरकायाः सूक्ष्मकायाश्च भवन्ति, किंतु पृथिव्यष्टक विमानादिकमाश्रित्य स्थूलकायाः, सूक्ष्मकायाः पुनः सर्वत्र जलस्थलाकाशे ॥ १८ ॥
सर्वत्र साधारणानां स्वरूपप्रतिपादनायाहगूढसिर संधिपव्वं समभंगमहीरुहं च छिण्णरुहं । साहारणं सरीरं तव्विवरीयं च पत्तेयं ॥ १९ ॥ गूढसिरासंधिपर्व समभंग महीरुहं च छिन्नरुहं । साधारणं शरीरं तद्विपरीतं च प्रत्येकं ॥ १९ ॥
गूढसिरसंधिपव्वं - गूढा अदृश्यमानाः शिराः सन्धयोङ्गबन्धा पर्वाणि ग्रन्थयो यस्य तद्गूढ शिरासन्धिपर्व