________________
पंचाचाराधिकारः ॥ ५ ॥
दननिमिचः । पाच- पापं चाशुभकर्मस्वरूपपरिणतपुद्गलमचयों जीवस्या सुखहेतुः । आसव - श्रासमन्तात् स्रवत्युपढौते कर्मानेनास्रव: । संवर- कर्मागमनद्वारं संवृणोतीति संवरणमात्रं वा संवरोऽपूर्व कर्मागमननिरोधः । णिज्जर-- निर्जरणं निर्जरयत्यनयां वा निर्जरा जीवलग्नकर्मप्रदेशहानिः । बंधो - बध्यतेऽनेन बन्धनमा वा बन्धो जीवकर्मप्रदेशान्योन्यसंश्लेषोऽस्वतंत्रीकरणं । मोक्खो - मुच्यतेऽनेन मुक्तिर्वा मोक्षो जीवप्रदेशानां कर्मरहितत्वं स्वतंत्रीभावः । चशब्दः समुच्चयार्थः । सम्मत्तं सम्यक्त्वं । एतेषां यथाक्रम एव न्यायः, जीवस्य प्राधान्यादुत्तरोत्तराणां पूर्वपूर्वोपकाराय पवृत्तत्वाद्वा । न चैतेषामभावो ज्ञानरूपमुपचारो वा धर्मार्थकाममोक्षाणामभावादाश्रयाभावात्मुख्याभावाच्च प्रमाणप्रमेयव्यवहाराभावाल्लोकव्यवहाराभावाच्च । जीवा
वा भूतार्थेनाधिगताः सम्यक्त्वं । तथा पुण्यपापं चाधिगतं सम्यक्त्वं । तथा आस्रव संवर निर्जराबन्ध मोक्षाश्चाधिगताः सन्तः सम्यक्त्वं भवति । ननु कथमेतेऽधिगताः सम्यक्त्वं यावतैषामधिगतानां यत्प्रधानं तत् सम्यक्त्वमित्युक्तं, नैष दोषः, श्रद्धानरूपैवेयमधिगतिरन्यथा परमार्थाधिगतेरभावात् कारणे कार्योपचाराद्वा जीवादयोऽधिगताः सम्यक्त्वमित्युक्तं । जीवादीनां परमार्थानां यच्छ्रद्धानं तत्सम्यक्त्वं । अनेन न्यायेनाधिगमलक्षणं दर्शनमुक्तं भवति ।
१७७
आदौ निर्दिष्टस्य जीवस्य भेदपूर्वकं लक्षणं प्रतिपादयन्नाह
१२