________________
इत्मणीतला पर्यायार्थिानादिनिधन
पंचोचाराधिकारः ॥४॥ १७१ त्रिविधेन त्रिप्रकारेण मनोवचनकर्मभिः । पणिविदे-प्रणिपत्य क्वान्तोऽयं, अथवा प्रणिपतामि मिङन्तोऽयं क्रियाशब्दः। सिद्ध-सिद्धान निराकृतनिर्मूलकर्मणः । न चात्र तेषामसिद्धता पूर्वापराविरुद्धागमतत्स्वरूपप्रतिपादकप्रमाणसद्भावात्, तत्सद्भावबारकप्रमाणाभावाद्वा । न चेतरेतराश्रयसद्भावः। द्रव्यार्थिकनयार्पणयानादिनिधनस्यागमस्य स्वमहिम्नैव प्रामाण्यात् । पर्यायाथिकनयाश्रयणाच घातिकर्मविनिर्मुक्ताहत्तणीतत्वाद्वा । न च जीवानां कर्मबन्धाभावाभावो हानिटद्धिदर्शनादिति । त्रिभुवनमन्दरमहितानहतस्त्रिलोकमस्तकस्थांस्त्रलोक्यविदितवीर्यान सिद्धांश्च प्रणिपत्य वक्ष्ये, इति सम्बन्धः । अथवा सर्वाणि शास्त्राणि नमस्कारपूर्वाणि, कुतः सर्वज्ञपूर्वकत्वात् तेषां यतोऽतः स्वंतत्रोऽयं नमस्कारः त्रिभुवनमन्दरमहितानहेतः सिद्धांश्च प्रणिपतामि । शेषाणि विशेषणान्यनयोरेव । अथवा सिद्धानामेव नमस्कारोऽयं भूतपूर्वगतिन्यायेन विशेषणानां सद्भावादिति । वक्ष्ये इति क्रियापदमुक्तं।
किं वक्ष्ये १ किमर्थं वा नमस्कार इति पृष्टेऽतः आहदसणणाणचरिचेतब्वेविरियाचरमि पंचविहे । वोच्छं अदिचारेऽहं कारिदे अणुमोदिदे अकदे॥ दर्शनज्ञानचरित्रे तपसि वीर्याचारे पंचविधे । वक्ष्ये अतीचारान् अहं कारितान् अनुमोदितान् च कृतान्