SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ समाचाराधिकारः॥४॥ १६ गय-न च । कुजा-कुर्युः न कुर्वन्ति । परगृहं गता आर्यिका रोदनस्नपनभोजनपचनसूत्राणि षड्विधारम्भाश्च न कुर्वन्ति, विरतानां पादम्रक्षणधावनं वा न कुर्युः स्वावासे परवासे वान्याश्च या अयोग्याः क्रियास्ता न कुर्वन्त्यपवादहेतुत्वादिति ॥१९३॥ अथ भिक्षाचर्यायां कथमवतरन्ति ता इत्यत आहतिण्णिवपंचवसत्तवअजाओअण्णमण्णरक्खाओ थेरीहिंसहंतरिदा भिक्खाय समोदरंति सदा॥ तिस्रो वा पंच वा सप्त वा आर्या अन्योन्यरक्षाः। स्थविराभिः सहांतरिता भिक्षायै समवतरंति सदा ॥ तिण्णि व-तिस्रो वा । पंचव-पंच वा। सत्त व-सप्तवा अजानो-पार्यिकाः । अण्णमण्णरक्खामो-अन्योन्यरक्षा यासां ता अन्योन्यरक्षाः परस्परकृतयत्नाः । थेरीहिं-स्थविराभिः वृद्धाभिः । सह-सार्धं । अंतरिदा-अन्तरिता व्यवहिताः काभिवृद्धाभिरेवान्यासामश्रुतत्वात् । भिक्खाय-भिक्षायै भिक्षार्थ भिक्षाभ्रपणकाले वोपलक्षणमात्रमेतद् भिक्षाग्रहणं यथा काकेभ्यो दधि रक्षतामिति । समोदरंति-समवतरन्ति सम्यक्पर्यटन्ति। सदा-सर्वकालं । यत्र तासांगमनं भवति तत्रानेन विधा. नेन नान्येनेति । तिस्रा पंच सप्त वा अन्योन्यरक्षाः स्थविराभिः सहान्तरिताश्च भिक्षार्थ समवतरन्ति सदेति ॥१९४॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy