________________
समाचाराधिकारः ॥४॥ स्तोकं कुतूहलं कौतुकं यस्यासावल्पकुतूहलोऽविस्मयनीयो ऽथवा अल्पगुह्यदीर्घस्तब्धः प्रश्रवादिरहितः । चशब्दः समुच्चयार्थः। चिरपव्वइदो-चिरप्रव्रजितः नियूंढव्रतमारो गुणज्येष्ठः । गिहिदत्थो-गृहीतो ज्ञातोऽर्थः पदार्थस्वरूपं येनासौ गृहीतार्थः आचारपायश्चित्तादिकुशलः। अज्जाणं-आर्याणां संयतीनां । गणधरो मर्यादोपदेशकः प्रतिक्रमणाद्याचायः। होदि-भवति । प्रियधर्मा दृढधर्मा संविग्नोऽवद्यभीरुः परिशुद्धः संग्रहानुग्रहकुशलः संततं सारक्षणयुक्तो गम्भीरदुर्धर्षमितवाद्यल्पकौतुकचिरप्रवजितगृहीतार्थश्च यः स प्रा. र्याणां गणधरो भवतीति ॥ १८४ ॥
अथान्यथाभूनो यदि स्यात् तदानीं किं स्यादित्यत पाहएवंगुणवदिरित्तो जदिगणधारित्तं करेदि अजाणं। चत्तारिकालगासेगच्छादिविराहणा होज ॥१८५ एवंगुणव्यतिरिक्तः यदि गणधरत्वं करोति आर्याणाम् । चत्वारःकालकाःतस्य गच्छादिविराधना भवेत् ॥ .
एवं-अनेन प्रकारेण एतर्गुणैः । वदिरित्तो-व्यतिरिक्तो मुक्तः । जदि-यदि । गणधारित-गणधारित्वं प्रतिक्रमणादिकं । करेदि-करोति । अजाणं-आर्याणां तपस्विनीनां । चत्तारि-चत्वारः । कालगा-कालकाः गणपोषणात्मसंस्का. रसल्लेखनोचमार्थकाला प्राधावा विराधिताभवन्तीति वाक्यशेषः । अथवा कलिकाग्रहणेन प्रायश्चिचानि परिगृह्यन्ते