SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ मूलगुणाधिकारः । पंचेविंदियरोहा छप्पिय आवासया लोचो ॥२॥ अचेलकमण्हाणं खिदिसयणमदंतघंसणं चेव । ठिदिभोयणेयभचं मूलगुणा अट्ठवीसा दु || ३ || पंच महाव्रतानि सामतयः पंच जिनवरोपदिष्टाः । पंचैवेंद्रियनिरोधाः षडपि च आवश्यकानि लोचः २ आचेलक्य अस्नानं क्षितिशयनं अंदतघर्षणं चैव । स्थितिभोजनमेकभक्तं मूलगुणा अष्टाविंशतिस्तु ॥३॥ पंच य-पंचसंख्यावचनमेतत् । चशब्द एवकारार्थः पचैव षट् । महन्त्रयाई -- महान्ति च तानि व्रतानि च महाव्रतानि महान शब्दो मह प्राधान्ये वर्तते, व्रतशब्दोऽपि सावद्यनिवृत्तौ मोक्षावाप्तिनिमित्ताचरणे वर्तते, महद्भिरनुष्ठितत्वात् । स्वत एव वा मोक्षप्रापकत्वेन महान्ति व्रतानि महाव्रतानि प्रा संयम निवृत्तिकारणानि । समिदीओ-समितयः सम्यगयनान समितयः सम्यकश्रुतनिरूपितक्रमेण गमनादिषु प्रवृत्तयः समितय: व्रतवृत्तय इत्यर्थः । जिणवरुद्दिट्ठा — कर्मारातीन् जयन्तीति जिनास्तेषां वराः श्रेष्ठास्तैरुपदिष्टास्तेन स्वमनीषिकाचर्चिता इमाः सर्वमूलगुणाभिधा न भवन्ति । प्राप्तवचनानुसारितया प्रामाण्यमासां व्याख्यातं भवति । कियन्त्यस्ताः • पंचैव नाधिकाः । पंचेविंदियरोहा - इन्द्र ग्रात्मा तस्य लिङ्गमिन्द्रियं अथवा इन्द्रो नामकर्म तेन सृष्टमिन्द्रियं तद् द्विविधं
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy