________________
७०
यतः
अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वदोषेभ्यः । अर्थं हितमहितं वा न वेत्ति येनाऽऽहतो लोकः ॥ ३४५ ॥
अण्णाणंधो जीवो जत्थ भयं तत्थ मग्गए ठाणं ।
अरिंग कीड-पयंगा पडंति अण्णाणदोसेण ॥ ३४६ ॥
मूलशुद्धिप्रकरणम्-द्वितीयो भाग:
‘संसओ' सन्देहः किमेतदेवमन्यथा वा ? इति संशीतिः, एषोऽप्यनर्थकृत्, यतः
संदेहाओ अणिच्छियमइणो नो किंचि सिज्झए कज्जं ।
संसयमिच्छत्तं चिय जायइ, तम्हा न कायव्वो ॥३४७॥
चेवशब्दः सूक्ष्म-बादरसंशयभेद सूचनार्थः, मिथ्याज्ञानं = विपरीतज्ञानम्, तथैव च = तेनैव प्रकारेणैतदपि न भव्यम्, तथाहि
विवरीयं नाणाओ पयट्टमाणो उ पावएऽणत्थं ।
जह मरुमरीइयाए नीरत्थं धावमाणो उ || ३४८॥ ॥१४३॥
रागः =अभिष्वङ्ग : द्वेषः = अप्रीतिलक्षणः, संसारप्रधानहेतू चेमौ, तथाऽऽह
राग-द्दोसेहिं जिओ हिंडइ संसारसायरमपारं ।
दूरंदूरेण तओ परिहरियव्वा सुहऽत्थीहिं ॥३४९॥
स्मृतिभ्रंशः = विस्मरणशीलता; दोषाय चाऽसौ यतः -
वीसरइ जस्स कहियं धम्मं कम्मं नरस्य सो कह णु । साहिस्सइ परमत्थं विसिट्ठमइवज्जिओऽहन्नो ? ॥३५०॥ धर्मे चाऽनादरः = अनुद्यमः, सोऽपि न भद्रकः, यतःइहलोइयं पि कज्जं न होइ फलयं अणायरकयं तु । नो कायव्वो तम्हा विसेसओऽणायरो धम्मे ॥ ३५१ ॥
योगानां=मनो-वाक्-कायानाम्, दुःप्रणिधानं दुष्टताकरणम् तदपि न विधेयम्,
=
मण-वय- कायाणं पुण दुप्पणिहाणं करेइ जो मूढो । सो निवडइ संसारे सुधम्मकम्माफलत्ताओ ॥३५२॥
अष्टधा = अष्टविधानेन च, मिथ्यात्वा ऽविरति प्रमाद - कषाय- दुष्टयोगाः कर्मबन्धहेतवः प्रत्युक्तास्तथा चाऽज्ञान- संशय - मिथ्याज्ञानैर्मिथ्यात्वम्, रागेणाऽविरतिः, द्वेषेण कषायाः, स्मृतिभ्रंश-धर्मानादराभ्यां प्रमादः, योगदुः प्रणिधानेन दुष्टयोगाः तस्माद्वर्ण्यः = विवर्जनीय इति