SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भाग: ३२५ पानीयं वाजलं प्लावयति, तथा च तीरस्थो नीरपूरेण, पोतभङ्गेन सागरे । याति पापात्मनां नाशमतिस्वानां धनोच्चयः ॥३९९॥ अपद्वारेण वेश्याव्यसनादिना, निर्गच्छति=गेहान्निःसरति, व्यसनोपहतस्य चव्यसनेनाऽऽहितस्य, तथा च वेश्या-चूत-मद्यादि व्यसनोपहतचेतसः । याति क्षयं धनं सर्वं, पापबुद्धेर्नरस्य हि ॥४००॥ तथामोहेनाऽन्धीकृतानां तु, स्पर्शव्याकुलचेतसाम् । याति वेश्यानिशान्तेषु, केषाञ्चिद्धनसञ्चयः ॥४०१॥ इति श्लोकार्थः ॥१९४॥ भूमीसंगोवियं चेव, हरंती वंतरा सुरा । उज्झित्ता जाइ सव्वं पि, मरंतो वा परं भवं ॥१९५।। 'भूमीसंगोवियं चेव' धरणीनिखातमेव, हरन्ति=अदृश्यं कुर्वन्ति, व्यन्तरसुराः =द्वितीयभेददेवाः, तथा च भूमीसङ्गोपितं यत्नाद्, भूरिलाञ्छनलाञ्छितम् । व्यन्तरा अधितिष्ठन्ति, पुण्यहीनवसूत्करम् ॥४०२॥ 'उज्झित्त' त्ति प्रोज्य परित्यज्य, याति=गच्छति, सर्वमपि=अशेषमपि, 'मरंतो व' त्ति म्रियमाणो वा, परमअन्यभवं=जन्मान्तरम् तथा च सर्वोपद्रवसङ्घाताद्रक्षितं चेत्कथञ्चन । तथाप्यन्यभवं याति, हित्वा किं बहुभाषितैः ॥४०३॥ इति श्लोकत्रयार्थः [१९३-१९५] ॥१९५॥ पापानुबन्धिपुण्यानामेतेषु स्थानेष्वर्थो व्रजति, पुण्यानुबन्धिपुण्यानां तु सुस्थानेऽतः श्लोकमाह पुण्णाणुबंधिपुण्णाणं, पुण्णमंताण काणइ । पडिमाइसु संघेवा, सुट्ठाणे जाइ संपया ॥१९६॥ १. ला. स्थानस्थो ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy