SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः 'आभिओगत्तं (त्तणं)' पारवश्यं प्राप्ताः, मनः सन्तापतापिताः = 'हा ! किमस्माभिः पापैः प्रमादवशवर्तिभिरिदं कृतं येनैवंविधाः सञ्जाताः' इत्यादिचित्तखेदवन्त इति ॥ १५१ ॥ पाणं महासूरी, संपुण्णसुयकेवली । दुरंता - ऽणंतकालं तु, णंतकाए वि संवसे ॥१५२॥ प्रमादात्=शैथिल्यात्, महासूरिः = प्रसिद्धाचार्यः, सम्पूर्ण श्रुतकेवली = चतुर्दशपूर्ववित्, दुरन्ता - ऽनन्तकालं तु = दुःखेनाऽन्तो यस्याऽसदुरन्तः; न विद्यतेऽन्तो यस्याऽसावनन्तः, दुरन्तश्चाऽसावनन्तश्च दुरन्तानन्तः स चाऽसौ कालश्च । तम्, यावदनन्तकायेऽपि, आस्तामन्ययोनिषु, वसति=तिष्ठति । तथा ह्यसौ महासूरिः प्रमादाद्विस्मृतचतुर्दशपूर्वो मिथ्यात्वं प्राप्तोऽनन्तकायेषूत्पद्यत इत्यागमे श्रूयत इति ॥ १५२ ॥ पमाणं भमंताणं, एवं संसारसायरे । तिक्खाणं दुक्खदुक्खाणं, वोच्छेओ नत्थि पाणिणं ॥१५३॥ सुखावबोधः, परम् ‘एवं ति पूर्वोक्तप्रकारेण, तीक्ष्णानाम् = अतिनिशातशस्त्राग्रवदसह्यानाम्, दुःखदुःखानां दुःखादप्यतिदुःखानामिति ॥१५३॥ ता पमायं पमुत्तूण, कायव्वो होइ सव्वहा । उज्जमो चेव धम्मम्मि सव्वसोक्खाण कारणं ॥ १५४॥ = सुगमश्चाऽयम्, नवरमुद्यमश्चैव इत्यत्र चैवशब्दस्याऽवधारणार्थत्वाद्धर्म एवोद्यमः कर्तव्य इति ॥ १५४॥ अत आह सव्वे संसारिणो सत्ता, कम्मुणो वसवत्तिणो । कम्णो यवसितं तु, जीवाणं दुक्खकारणं ॥ १५५ ॥ १२३ तस्मात् सर्वे=समस्ताः, संसारिणः = भववर्त्तिनः, सत्त्वाः = प्राणिनः कर्मणः । = दैवस्य, वशवर्तिनः = परवशाः, ततः किं कर्मणस्तु वशवर्तित्वं जीवानां दुःखकारणम्= अशर्मकृदिति श्लोकार्थः ॥ १५५॥ - निम्मूलुम्मूलणत्थं च तम्हा दुट्ठट्ठकम्मुणो । कायव्वो भद्द ! निच्चं पि, धम्मो सव्वण्णुभासिओ ॥१५६॥ निर्मूलोन्मूलनार्थं तस्माद्दुष्टाष्टकर्मणां कर्तव्यः = विधेयः, 'भद्र !' इति प्रमादवशवत्सा धर्मिकामन्त्रणम्, नित्यं= सदा, धर्मः = सर्वज्ञभाषित इति श्लोकार्थः ॥ १५६॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy