________________
७८
श्रीअध्यात्मकल्पद्रुमे स तथा तं पीतप्रमादासव कृत्वा, नारको-नरकः स एव चारकः-कारागृहं, तस्याऽऽपद-विपत्तिः, तस्या उचितो-योग्यः स तथा तं नारक-चारकापदुचितं कृत्वा, च पुनः छलम्-आयु:पूर्तिलक्षणं मिषं प्राप्य-लब्ध्वा गन्ता-याताऽस्तीत्यर्थः, इतिहेतोस्तं बलीवर्दसदृशं कायाह्वयं कर्मकरम्, अल्पं-द्विचत्वारिंशदाहारदोषादूषितं लघु कायभाटकप्रायमाहारादि ददत्-प्रयच्छन् स्वहिताय-परभवे आत्मनो मोक्षलक्षणसुखाय संयमभरं-सप्तदशसंयमलक्षणं भारं त्वं वाहया-ऽऽ-जीवितान्तं पारं प्रापयेति, वाहयेत्यत्र वधातुः स्वभावतो ण्यन्तत्वाद् वा द्विकर्मकः ।।५.५।।
रत्न.-अथ कायं कर्मकरत्वेनोपमयति -
दुष्टः कर्मविपाकभूपतिवश इति, व्याख्या-हे आत्मन् ! काय इत्याह्वयोनाम यस्य सः कायाह्वयः कर्मकृत् कर्मकरः, त्वां नारकचारकाऽऽपदुचितं कृत्वा-निरयगुप्तिगृहविपद्योग्यं कृत्वा, पुनराशु-शीघ्रं छलं प्राप्य गन्तागमिष्यतीत्यन्वयः, कर्मकृत् किंलक्षणः? - दुष्टो निर्दयः, पुनः कीदृक? - कर्मणां ज्ञानावरणीयादीनां विपाको-विपचनं, स एव भूपतिः, तस्य वशः-अधीनः, स्वयं दुष्टः अथ च कर्मविपाकराजप्रेरित इत्यर्थः । किं कृत्वा ? - बद्ध्वा, कैः ? - कर्मोण्येव गुणाः-रज्जवस्तैः, अपरोऽपि अपराधी रज्जुभिर्बध्यत इति, त्वां किम्भूतं ? - पीतः प्रमाद एवासवः-सीधुर्मदिराविशेषो येन स तं, कैः ? - हृषीकाणि-इन्द्रियाण्वेव चषकाः-पानपात्राणि, यैः कृत्वा मद्यं पीयते ते चषका इति, अनेन पीतमद्यत्वाद् बधैं सुकर इति सूचितं, अपरोऽपि नृपादिष्टः सेवकोऽपराधिनं बद्ध्वा गुप्तौ प्रक्षिप्य यातीति तथा कायः कर्मकृदपि । इतिहेतोः स्वकायकर्मकृतं त्वं वाहय-वञ्चय, किं कुर्वन् ? - ददद्-ददानः, कं? - संयमभरं, किंभूतम्-अल्पं-स्तोकं, बहोर्दाने असमर्थस्त्वं, अत एव स्तोकमपीत्यर्थः । कस्म? - स्वहिताय, अपरोऽपि नृपसेवको लञ्चाप्रदानेन वञ्च्यते तथा त्वमपि चास्य संयमभररूप-लञ्चाप्रदानेन वञ्चय यथाऽसौ त्वामबद्ध्वा नारकचारकापदुचितं चाकृत्वैव यातीति ।।५.५।।
१. वाहय-जीवितान्ते - मु० ।