________________
७. देहममतामोचनाधिकारस
[११७] पुष्णासि यं देहमघान्यचिन्तयँस्
तवोपकारं कमयं विधास्यति ? | कर्माणि कुर्वन्निति चिन्तयाऽऽयति, जगत्ययं वञ्चयते हि धूर्तराट् ।।५.१।।
उपजाति धनवि.-ननु धनममतामोचने शरीरसत्यापना कथं भवति ? इत्याशङ्कायां शरीरममतामोचनद्वारमुपदिशन्नाह – अथ देहाधिकार: – अथ देहाधिकार इति, अथ देहममतामोचनोऽधिकार उपदिश्यत इत्यर्थः । तत्र पूर्वं देहस्यानुपकारकत्वं धूर्ततां च दर्शयन् देहपोषणे दोषमुपदिशति - _'पुष्णासि' इति - हे आत्मन् ! अघानि-जीवघातादिजनितानि पापानि, अचिन्तयन्-अविचारयन् त्वं, यं देह-शरीरं पुष्णासि-पुष्टिविषयीकरोषीत्यर्थः, सोऽयं देहस् तव कं-किंनामकम्, उपकारं-हितकार्यकरणलक्षणं विधास्यति-करिष्यति ?, ततः कर्माणि-देहपोषणार्थं जीवहिंसादिकार्याणि, कुर्वन्-सृजन् इत्यनन्तरोक्तामायतिम्उत्तरकालं चिन्तय-विमृशेति, हि निश्चितं जगति-विश्वेऽथवा जगन्ति-जगज्जंतून्, अयं-कायाह्वयो धूर्तराट्-वञ्चकपतिः, वञ्चयते विप्रतारयतीत्यर्थः, भावार्थस्तु - त्वं यं देहं पुष्णासि स देहस्त्वां कर्मभारभारितं दुर्गतियोग्यं च कृत्वा नंष्ट्वा यास्यतीति धूर्तराजत्वं देहस्येति ।।५.१।।
रत्न.-अथ देहममत्वमोचनाधिकारः पञ्चमो व्याख्यायते, तस्य चेदं प्रथम वृत्त । तत्र प्रथमं पापं कुर्वन् वपुःपोषं मा कुर्वित्युपदिशति -
पुष्णासि यं देहम्, इति, व्याख्या हे शरीरिन् ! त्वं यं देहं पुष्णासि-पुष्टं करोषि, किं कुर्वन् ! - अचिन्तयन्-अविचारयन्, कानि ? - अधानि प्रति
१. इन्द्रवंशा त-त-ज-र' + वंशस्थ - 'ज-त-ज-र' नुं मिश्रण | २. प्रथमं मु० । ३. पोषणादौ० मु०। ४. 'जगन्ति' पाठः रत्नटी. प्रतौ मूलत्वेन गृहीतः । ५. 'तस्य...वृत्तं' मु० नास्ति.