SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५६ [९५] आजम्मेणं तु जं पावं, बंधिज्जा मच्छबंधओ । वयभंगं काउंमाणस्स, तं चेवऽट्ठगुणं भवे" ।।[ इत्याद्यागमेन स्पष्टमेवेति स्त्री परिहरणीयैवेति ।।२.७ ।। रत्न. - अमेध्यभस्त्रत्रा- इति व्याख्या - स्त्री भुक्ता सती नरकाय, नरकगतये इत्यर्थः, स्यात्. कस्मात् ? संस्कारेण-परिकर्मणा मोहो रागोत्पत्तिः तस्मात् पूर्वभवाभ्यास-जनितसंस्कारेण स्मृतिबीजेन वा यो मोहस्तस्मात्, 'स्मृतिबीजं संस्कार' इति [ ] वचनात् । स्त्री कथम्भूता ? अमेध्यस्य - अपवित्रवस्तुनो विष्ठादेर्भस्त्रेव-चर्मप्रसेविकेवामेध्यभस्त्रा, पुनः किंलक्षणा ? बहूनि यानि रन्ध्राणि-छिद्राणि तेभ्यो निर्यन्तो ये मलाः, तैराविला । पुनः ? किं.- उद्यत्प्रकटीभवद् यत् कृमीणां-योन्युत्थसूक्ष्मजन्तूनां जालं समूहः तेनाकीर्णा- व्याप्ता, पुन. किंलक्षणा ? - चापल्यं - चपलता माया- शाठ्यं अनृतं-मिथ्यावचस्, तैर्वञ्चिकावञ्चनकर्त्री ।।२.७ ।। [९६] निर्भूमिर्विषकन्दली गतदरी व्याघ्री निराह्वो महाव्याधिर्मृत्युरकारणश्च ललनाऽनभ्रा च वज्राशनिः । बन्धुस्नेहविघात-साहस-मृषावादादिसन्तापभूः, प्रत्यक्षाऽपि च राक्षसीतिबिरुदैः ख्याताऽऽगमे, - - श्रीअध्यात्मकल्पद्रु · - ]|| त्यज्यताम् ।।२.८। धनवि.—अथ ललनाममतामोचनद्वारोपसंहाराय - ललनानां हीनवस्तूपमेयतां दर्शयन्नुपदिशति ‘निर्भूमिः' इति – निर्भूमिः-भूमिरहिता विषकन्दली - विषवल्लरी, च पुनर्गतदरीगुहारहिता व्याघ्री-सिंही, च पुनर्निरावो निर्नामा महाव्याधिः- महारोगः च पुनर् अकारणो-निष्कारणो मृत्यु:-मरणं च पुनः अनभ्रा - वार्दलरहिता आकाशरहिता वा वज्राशनिः-वज्रमयी विद्युत्, च पुनर्बन्धुस्नेहविघात-साहस-मृषावादादिसन्तापभूःबन्धूनां-स्वजनानां स्नेहः-प्रेम, तस्य विघातश्च - विनाशः, साहसं च - अविमृश्यकारिता, १. मण० मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy