________________
५२
श्रीअध्यात्मकल्पद्रुमे रत्न.-'अमेध्य' इति, व्याख्या-नारीणां शरीराणि निषेवमाणाः-सम्भोगद्वारेण सेवमानाः पुरुषा, इहापि-इहलोकेऽपि अपत्यं-पुत्र-पुत्र्यादिलक्षणं, द्रविणं-धनं, द्वन्द्वसमासः, अपत्य-द्रविणे आदौ तेषां तानि, तथा तेषां चिन्ता-चिन्तनं, तया तापान्-सन्तापान् इयति-प्राप्नुवन्ति, च पुनः परत्रेति-परलोके 'दुर्गती:-निरयतिर्यग्लक्षणाः प्रति इग्रति, नारीशरीराणि किंलक्षणानि अमेध्यं च मांसं च असं च वसा च अमेध्य-मांसाऽस्र-वसाः, ता एवात्मास्वभावो येषां तानि अमेध्यमांसास्र-वसात्मकानि अमेध्य-मांसा-स्र-वसारूपाणीत्यर्थः ।।२.४।। [८५] अङ्गेषु येषु परिमुह्यसि कामिनीनां,
चेतः ! प्रसीद विश च क्षणमन्तरेषाम । सम्यग् समीक्ष्य विरमाशुचिपिण्डकेभ्यस्
तेभ्यश्च शुच्यशुचिवस्तुविचारमिच्छत् ।।२.५।। धनवि.-ननु साक्षात् तनु-मनो-नयनानन्ददायिषु स्नात-धौत-सुसंस्कृतकान्ताकान्त-स्तन-जघन-वदन-नयनेषु दृश्यमानेषु केन द्रष्ट्राऽनन्तरोक्ता अमेध्यमांसाऽस्र-वसाद्यात्मकता ? इत्याशङ्कायामुपदिशति -
'अङ्गेषु' इति – हे चेतः ! हे चित्त ! त्वं येषु कामिनीनां-ललनानाम्, अङ्गेषु-स्तन-नितम्बाद्यवयवेषु परिमुह्यसि-परि सामस्त्येन मोहं यासि, परं हे चेतःत्वं प्रसीद-अस्वस्थतां मुक्त्वा प्रसन्नं भव, च पुनः प्रसन्नभवनानन्तरं हे चेतः! एषाम्-अङ्गानाम् अन्तः-मध्ये त्वमुपयोगद्वारा विश-प्रवेशं कुरु, च पुनः प्रवेशानन्तरं सम्यक्-समीचीनं यथा स्यात् तथा हे शुच्यशुचिवस्तुविचारमिच्छत् हे चेतः ! त्वं समीक्ष्य अशेषविशेषोल्लेखनया परामृश्य, अशुचिपिण्डकेभ्यो-मांसाद्यवयवसञ्चयेभ्यः, तेभ्यः-अङ्गेभ्यः विरम-निवृत्तिं कुरु;, अत्र शुचि च पवित्रम्, अशुचि चापवित्रं, १. दुर्गतीः इत्यस्य द्वयोः वृत्त्योः क्रमभेदो विचारणीयः धनवि.-टीकामां 'तिर्यग्-नरक' इति क्रमोऽस्ति. रत्नवि.-टी.कायामत्र 'निरय-तिर्यग्' इति च क्रमः । नारीषु अर्थात् विषयेषु अत्याशक्त्याः प्रथम फलं । 'नरकत्वं' अल्पाशक्त्याः तिर्यग्त्वं, अतः अनाशक्तिरेवोचिता इति भावः |