SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रुमे - 'विश्वजन्तुषु' इति हे मानस ! - चित्त ! यदि-चेत् त्वं विश्वजन्तुषु-सर्वप्राणिषु जगज्जनेषु वा, एकं क्षणं समताभावतो मैत्री-परहितचिन्तास्वरूपां, भजसि-सेवसे, तदा [त्वं] अत्र-इह भवे परत्र-परभवे तद् अनिर्दिष्टं परमम्-उत्कृष्टं सुखमश्नुषेलभसे, यत् सुखं तव जातु-कदाचित्, नाभूत्-नासीदिति ।।१.४।। रत्न.-अथ साम्याश्रयणे किं सुखं स्यात् ? - इति प्रवर्तकं लोभयन्नाह विश्वजन्तुषु-इति, व्याख्या हे मानस ! हे मनः ! त्वं साम्यतः-समभावतः एकं क्षणं विश्वजन्तुषु मैत्री भजसि, तदा त्वमत्र-इह लोके, परत्र-परलोके परमम-उत्कृष्टं तत् सुखमश्नुष-प्राप्नोषि यत् सुखं जातु-कदाचिदनन्तभवभ्रमिदशायां नाभूत्-न जातमिति । अथवा हे आत्मन् ! यदि त्वं मानसस्य-मनसः सम्बन्धिनी, न तु केवलां काय-वाङ्मयीं, मैत्री भजसीति व्याख्या ।।१.४।। [४५] न यस्य मित्रं न च कोऽपि शत्रुर् निजम्परो वाऽपि न कश्चनाऽऽस्ते । न चेन्द्रियार्थेषु रमेत चेतः, कषायमुक्तं परमः स योगी ||१.५।। धनवि.-ननु समतायां कः कीदृशश्चाधिकारी ? - इत्याकाङ्क्षायां समताधिकारिणं दर्शयन्नाह - 'न यस्य' इति यस्य पुरुषस्य कोऽपि मित्रम्-सुहद्, नास्ते-न वर्त्तते, यस्य च कोऽपि शत्रु-वैरी नास्ते, यस्य च स्वकीयः परकीयश्च कश्चन नास्ते, चशब्दः पुनरर्थे अपिशब्दः समुच्चये, यस्य च चेतः - चित्तम्, इन्द्रियार्थेषुशब्दादिषु विषयेषु न रमेत-न क्रीडति, यस्य च चेतः कषायमुक्तं स पुरुषः परमो योगीत्युच्यते ||१.५।। रत्न:-अथ साम्याश्रयणे जीवः कीदृक् स्यात् ? - इत्याह - 'न यस्य' इति, व्याख्या-यस्य कोऽपि न मित्रमास्ते । आस्ते इति सर्वत्र १. श्री विजयदेवसूरिगुरुभ्यो नमः - इति पाठः मूल पद्यान्तरम्-सं. । २. ०जनो न - मु० । का पता,
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy