________________
३३६
श्रीअध्यात्मकल्पद्रुमे इति प्रशमरतिप्रकरणे इति ।।१६.५।। रत्न.-अथ सद्गुरुसेवया सर्वं शुभं प्राप्यत इति तत्रार्थ आत्मानमुपदिशति
तमेव सेवस्व. इति. व्याख्या-हे आत्मन् ! प्रयत्नाद् गुरुं तमेव सेवस्व, प्रयत्नादिति सर्वत्र योज्यं, हे विद्वन् ! आगमान्-शास्त्राण्यपि तानि, अधीष्वपठ, तथा तदेव तत्त्वं परिभावय-चिन्तय, येभ्यो-गुरुसेवा-शास्त्राध्ययनतत्त्वपरिभावनेभ्यः साम्यमेव सुधा-अमृतं, तस्या उपभोगो भवेत्, कुगुरुसेवनकुशास्त्राध्ययन-कुतत्त्वपरिभावनैः संसारमूलकारणैश्च न किमपीति तत्त्वम् ।।१६.५।। [४७३] समग्रसच्छास्त्रमहार्णवेभ्यः,
समुद्धृतः साम्यसुधारसोऽयम् । निपीयतां हे विबुधा ! लभेध्व
मिहापि मुक्तेः सुखवर्णिकां यत् ||१६.६।। धनवि.-अथैनं ग्रन्थमुपसंहरन् ग्रन्थश्रवणफलमुपदर्शयति - 'समग्र' इति, हे विबुधा ! - पण्डिताः ! तस्मात् कारणाद् भवद्भिर्, अयम्अध्यात्मकल्पद्रुमाभिधाने ग्रन्थे स्थितः, समग्रसच्छास्त्रमहार्णवेभ्यः-सकलधर्मशास्त्रमहासमुद्रेभ्यः, समुद्धृतः-सम्यक् प्रकारेणोद्धारविषयीकृतः सङ्ग्रहीत इतियावत् साम्यसुधारसः-समतामृतनिर्यासो निपीयतां-श्रूयतामिति, आदरेण श्रवणं पानमुच्यते; यद्-यस्मात् कारणात् इहापि-मनुष्यभवे स्थितोऽपि मुक्तेः-मोक्षस्य सुखवर्णिकांसौख्यस्य वर्णिका-तत्स्वरूपसूचक-स्तदेकदेशः, तां लभेध्वं-प्राप्नुयात इति ।।१६.६ ।।
रत्न.-अथैतद्गन्थस्य शुभोत्पत्तिस्थानकथनेनोपदेयतामाह -
समग्रसच्छास्त्र..इति. व्याख्या-हे विबुधा ! हे पण्डिता ! अयं ग्रन्थः साम्यमेव सुधारसो यत्र सः, अथवा साम्यमेव सुधारसस्तन्मयः साम्यसुधारसो निपीयताम्-अत्यादरेण श्रूयतां, युष्माभिरिति कर्तृपदं, किंलक्षणः ? - समुद्धृतःकर्षितः, केभ्यः ? - समग्राणि-समस्तानि सन्ति-शोभनानि शास्त्राणि-धर्मशास्त्राणी१. मुद्रिते कुत्रापि 'लभध्वम्' इति ।