________________
साम्यसर्वस्वाद्वारम्
३३३ त्वमेव दुःखम्..इति. व्याख्या-हे आत्मन् ! स्वस्य दुःखकारणे कर्मणि प्रवृत्तत्वात्, त्वमेवासीति सर्वत्र सम्बन्धनीयम्, अथवा दुःखानां भोक्तृत्वात् त्वमेव दुःखं, यथेदं भोगिगृहं दातृगृहं, परं गृहं भोगि दातृ च कथं भवति ?, भोगी दाता च गृह्येव भवति, परम्, आश्रये आश्रयिण उपचारात् इत्यादयः प्रयोगा अविप्रतिपन्नाः, तथैवायं प्रयोगोऽपि, तथा त्वमेव नरको-नरकगतिकारणे कर्मणि प्रवृत्तत्वाद्, अथवा नरकदुःखानां भोक्तृत्वाद्, यथा गृहं स्त्री इतिवत्, तथा त्वमेव शर्मापि-सुखमपि, सुखप्राप्तिकारणे कर्मणि प्रवृत्तत्वाद्, अथवा सुखानां भोक्तृत्वात्, तथा त्वमेव शिवं-मोक्षः, मोक्षकारणे चारित्रादौ प्रवृत्तत्वेन, यदा तदा वा मोक्षाश्रयितया भावित्वेना-भेदोपचारात, तथा त्वमेव कर्माणि कर्मा-ऽऽत्मनोर्लोहा-ऽग्निवदभेदतया मिलितत्वात् सकलकर्मभोक्तृत्वाद् वाऽभेदोपचारात्, तथा मनः-चेतस्त्वमेव मनसः प्रवर्तन-निवर्त्तनयोरीशत्वेनाभेदोपचारात्, तेन कारणेन हे आत्मन् ! अवज्ञाम्-अनादरम्-अर्थाद्-धर्मकर्मणि कल्ये परुत् परारिवर्षे वा करिष्येऽहमिति धर्मकर्मेतिरूपां जहाहि, च पुनरवधेहि-सावधानमना भव, धर्मकर्मणि पटुर्भवेतिभाव ।।१६.२ ।।
[४७०] निःसङ्गतामेहि सदा तदात्म
नर्थेष्वशेषष्वपि साम्यभावात् । अवेहि विद्वन् ! ममैतव मूलं,
शुचां सुखानां समतैव चेति ।।१६.३।। धनवि.-साम्यकारणमविद्यात्यागमुपदिश्य साम्यकार्यं सङ्गत्यागमुपदिशन्नाह
'निःसङ्गता' इति, हे आत्मन् ! यतः कारणात्, अनन्तरोपदेशे सर्वं त्वमेवासीति प्रतिपादितम्, तत्-तस्मात् कारणात् सदा-सर्वकालम्, अशेषेषुसमस्तेषु, अप्यर्थेषु-सुख-दुःखजनकेषु साम्यभावात्-समतापरिणामात्, निःसङ्गतां१. टीकापाठान्तरः - अविद्याऽवज्ञयोः को विशेषः ? अविद्या तु सदुपदेशस्य विरुद्धो भावः, अवज्ञा च - सदुपदेशाचरणे प्रमादशैथिल्यं - इति प्रतिभाति । अत्र विद्या तु सम्यग् ज्ञानं, तत्र च सम्यक् कार्यकरणं अनवज्ञा - ज्ञानवच्चरणमिति दृष्ट्यातयो मुक्तिसाधनतया एकीभाव इत्यपि ज्ञेयम् ।