________________
१६. साम्यसर्वस्वाधिकारस
[४६७] एवं सदाऽभ्यासवशेन सात्म्यं,
नयस्व साम्यं परमार्थवेदिन् ! । यतः करस्थाः शिवसंपदस्ते,
भवन्ति सद्यो भवभीतिभेत्तुः ||१६.१।। धनवि:-अथानन्तरोक्ता शुभप्रवृत्तिः साम्याधीनेति साम्यरहस्यद्वारं प्रतिपादयन्नाह
यद् वाऽनन्तरोक्तानि पञ्चदश द्वाराणि साम्यकारणान्युपदिष्टानीति साम्यरहस्यद्वारं प्रतिपादयन्नाह-, अथवा साम्यमयमध्यात्मकल्पद्रुमाभिधानशास्त्रमुपसंजिहीर्षुः साम्यरहस्यद्वारं प्रतिपादयन्नाह अथ ग्रन्थोपसंहाराय साम्यसर्वस्वमिति स्पष्टम्, अत्र प्रतिपाद्यत इति शेषः; ।
अत्र प्रतिज्ञातमेव प्रथममुपदिशति -
'एवम्' इति, हे परमार्थवेदिन् ! - हे तात्त्विकपदार्थज्ञ ! एवम्-अमुना पञ्चदशद्वारोक्तप्रकारेण सदा-सर्वकालम्, अभ्यासवशेन-पुनः पुनः करणलक्षणाभ्यासायत्ततायोगेन, साम्यं-समतां सात्म्यं-स्वात्मप्रकृत्या सहकीभावं, नयस्व-प्रापयस्व; यतः साम्यैकभावात् सद्य-शीघ्रं भवभीतिभेत्तुः-संसारभयभेदकस्य ते-तव शिवसंपदोमोक्षश्रियः करस्था-हस्तप्राप्ता भवन्तीति ।।१६.१।।
रत्न.-अथ ग्रन्थोपसंहाराय साम्यरहस्यमिति षोडशोऽधिकारो विवरीतुं प्रक्रम्यते, अत्र सर्वा शुभा प्रवृत्तिरभ्यासवशत आयातीति निरूपयति -
एवं सदाऽभ्यासवशेन..इति. व्याख्या-परमार्थं-रहस्यं वेत्सी(ती)ति परमार्थवेदी, तस्य संबोधनं क्रियते-हे परमार्थवेदिन् ! त्वमेवम्-अमुना सकलग्रन्थोक्तप्रकारेण साम्यं-समत्वं प्रति, सह-आत्मना-स्वरूपेण वर्त्तते यत्, तत् सात्म, सात्मनो भावः सात्म्यं-स्वरूपत्वं नय, यादृक् साम्यं कथितमस्ति तादृगेव नयस्व-प्राप्नुहि, केन ? - सदा-निरन्तरमभ्यासवशेन, यतः साम्यात्, ते-तव करस्थाः शिवसंपदो