________________
शुभप्रवृत्तिशिक्षाद्वारम्
३२९ वस्तुनि यस्य सः अनुत्तरविमानामराणां सर्वेषां समानत्वात् सुखमप्यनुत्तरं, ततस्तत्सुखस्य ग्रहणमिति ।।१५.९ ।। [४६३] इति यतिवरशिक्षा, योऽवधार्य व्रतस्थश्
चरणकरणयोगानेकचित्तः श्रयेत । सपदि भवमहाब्धिं क्लेशराशिं च तीर्थ्यो,
विलसति शिवसौख्याऽऽनन्त्यसायुज्यमाप्य ||१५.१०।। धनवि.-अथ शुभप्रवृत्तिशिक्षोपदेशमुपसंहरन्नाह -
'इति यतिवर' इति, यो व्रतस्थो-यः साधुरिति-अमुना प्रकारेणोक्तां यतिवरशिक्षाम्, यतिवरा-मुनिवराः, तीर्थकरा गणधराः पूर्वाचार्या वा, तेषां शिक्षा-हितोक्तिम्, अवधार्य एकचित्त-तदेकाग्रमनाः सन्, चरणकरणयोगान्चरणसप्तति-करणसप्ततिलक्षणान् योगान्-संयमव्यापारान् श्रयेत-सेवेत,
तत्र चरणसप्ततिः - [संबोधप्रकरणे] . [४६४] '५ वय. १० समणधम्म. १७ संजम. १० वेयावच्चं. ९ च बंभगुत्तीओ.।
३ नाणाइतियं. १२ तव. ४ कोहनिग्गहाइ. चरणमेयं ।। [७३६] ।।' इतिरूपा
करणसप्ततिश्च - [४६५] '४पिंडविसोही. ५समिई. १२भावण. १२पडिमा. ५य इंदियनिरोहो.।
२५पडिलेहण. ३गुत्तीओ. ४अभिग्गहा. चेव करणं तु ।। [७३७] ।।'इतिरूपा
स साधुः सपदि-शीघ्रं क्लेशराशिं भवमहाब्धि-संसारमहासमुद्रं तीर्थ्या-निस्तीर्य च पुनः, शिवसौख्याऽऽनन्त्यसायुज्यमाप्य-प्राप्य विलसति-सौख्यमनुभवतीत्यर्थः, अत्र क्लेशानां-जन्म-जरा-मरण-क्षुत्-पिपासा-परिभवादिलक्षणानां राशिः-समूहो यत्र स तथा तं क्लेशराशिमिति भवमहाब्धिविशेषणं, किञ्च-शिवसौख्यस्यमोक्षसुखस्य आनन्त्यम्-अविनाशिता, तया सह सायुज्यं-साहित्यं, यदुक्तम्, अभिधानचिन्तामणौ 'ब्रह्मसायुज्यम्'[८२१] इति, अस्य व्याख्याने "सह युग१. साम्यभावात् इत्यर्थः ।