________________
३२४
श्रीअध्यात्मकल्पद्रुमे रत्न.-अथ स्वाध्यायकारी सदुपदेशवान् भवतीति सदुपदेशविषये उपदिशति
ददस्व.. इति. व्याख्या-हे यते ! त्वं, धर्म एवार्थः-प्रयोजनमस्यास्तीति धर्मार्थी तस्य भावो धर्मार्थिता, तया एव, न तु स्वार्थनिष्ठत्वेन, सदा धान्धर्मसंबंधिन उपदेशान् ददस्व-देहि, कस्मात् ? -- स्वश्च परे च स्व-परे, ते आदौ येषां ते स्व-परादयः, तेषु साम्यं-समत्वं तस्माद्, असौ स्वो-मदीयो मदाज्ञाकारी, अत' एव धर्मोपदेशं ददामि, एते परे-मिथ्यादृष्टयः अभक्ताश्चेति किं धर्मोपदेशदानेन ? अथवाऽस्य रुचितकथने प्रीतिरिति रुचितमेव वदामीति, राग-द्वेषौ मुक्त्वेत्यर्थः, आदिशब्देनेभ्याऽनिभ्य-दात्रदातृप्रभृतिग्रहणं । तथा त्वं जगतामिति 'तात्स्थ्यात् तद्व्यपदेश' इति न्यायाज्जगद्वासिलोकानां हितैषीहितस्पृहः सन, नवभिः कल्पैरप्रमत्तः-अप्रमादी सन, विहर-विहारं कुरु, एकत्र मा वसेत्यर्थः, कस्मिन् ? - ग्रामे वा पुनः कुले-ग्रामैकदेशे एककुलनिवासस्थानरूपे, ग्रामान्तरादौ विहारकरणासामर्थ्य सति, अथवा दुष्काल-'विड्वरादौ विहारयोग्यदेशाभावे सतीति ज्ञेयं, मार्गशीर्षाद्या-ऽऽषाढपर्यन्ता अष्टौ मासा अष्टौ कल्पाः, श्रावण-भाद्रपदा-श्विन-कार्तिकाश्चत्वारो मासा एक एव कल्पः, तथैवाज्ञप्तत्वात् तीर्थकृद्भिरिति नव कल्पाः, इदमौत्सर्गिकं वचनम्, अपवादतः षण्मासानेकस्मिन्नेव ग्रामादौ स्थेयमित्याज्ञप्तत्वादिति ।।१५.५।।
[४५८] कृता-ऽकृतं स्वस्य तपो-जपादि,
शक्तीरशक्तीः सुकृतेतरे च | सदा समीक्षस्व हृदाऽथ साध्ये,
यतस्व हेयं त्यज चाव्ययार्थी ||१५.६।। धनवि.-अथ शुभप्रवृत्तिमशुभनिवृत्तिं चोपदिशन्नाह - 'कृताऽकृतम्' इति, हे आत्मन् ! त्वं स्वस्य-निजस्य कृता-ऽकृतं तपोजपादि हृदा-हृदयेन समीक्षस्व-'इदं तपो मया कृतम्, इदं न कृतम्, अयं जपः
१. अत एवं - मु० । २. ज्वरादौ मु० ।