________________
३१३
मिथ्यात्वादिसंवरोपदेशद्वारम्
अटालयत् कुणालाया, वृष्टिं ज्ञात्वा च तज्जनैः । निस्सार्येते स्म तौ साधू, क्रुद्धोऽथ करटोऽवदत् ।।३।। वर्ष देव ! कुणालायामुवाचोत्करटस्ततः । दिनानि दश पञ्चाथ, पुनः करट ऊचिवान् ।।४।। मुष्टिप्रमाणधाराभिः, पुनरुत्करटोऽभ्यधात् । यथा दिवा तथा रात्रावित्युक्त्वा तौ निरीयतुः ।।५।। कुणालाऽपि पञ्च-दशदिनैरच्छिन्नवर्षणात् । सार्द्ध जनपदेनाम्भःपूरैः प्रवाह्यताखिला ।।६।। तृतीये वत्सरे तौ च, साधू साकेतपत्तन । कालं कृत्वा सप्तमोर्ध्या, द्वाविंशत्यतरायुषौ ।।७।। कालाख्यनरकावासे, संजायेते स्म नारकौ । कुणालाया विनाशस्य, कालाद् वर्षे त्रयोदशे ||८|| उत्पन्नं केवलं ज्ञानं, श्रीमद्वीरजिनेशितुः ।। इति ।।१४.१९ ।। रत्न. अथेन्द्रियाण्याश्रित्य संवरमुक्त्वा कषायानाश्रित्याह -
कषायान्. इति. व्याख्या- हे प्राज्ञ ! त्वं कषायान्-क्रोध-मान-माया-लोभान् संवृणु, त्यजेति भावः, सर्वथा त्यक्तुमशक्तोऽल्पान् कुरु वा, येषामसंवराद्अनिरोधान् महातपस्विनोऽपि करटोत्करटादयो नरकं-निरयमापुः-प्राप्ताः -
वर्ष मेघ कुणालायां, दिनानि दश पञ्च च ।
युगधाराप्रमाणेन, यथा रात्रौ तथा दिवा ।।१।। इतिवचसाऽखण्डधारावृष्टमेघप्लावितकुणालानगरीपातकात् करटोत्करटनामानौ मुनी नरकं गतौ, अनयोदृष्टान्तविस्तरस्तु कर्पूरप्रकरवृत्त्यादिभ्योऽवसेयः, विस्तरभयान्न प्रतन्यत इति, एवमादयोऽन्येऽप्यूह्याः ।।१४.१९ ।।