________________
३०९
मिथ्यात्वादिसंवरोपदेशद्वारम्
धनवि.-अथ चक्षुरिन्द्रियसंवरमुपदिशन्नाह च -
'चक्षुः' इति, चक्षुःसंयममात्रात्-केवलचक्षुरिन्द्रियसंवरात्, रूपालोकान्रूपस्यावलोकनानि त्रीन्द्रियादयः चक्षुर्दोषदुष्ट-पञ्चेन्द्रियादयश्च, के जन्तवो न त्यजन्ति ?, अत्र के इत्यध्याहार्य, अपि तु सर्वेऽपि रूपालोकान् परिहरन्तीत्यर्थः | उत्तरार्द्धमत्रापि पूर्ववदेवावसेयं, गन्धस्थाने रूपमिति विशेषः ||१४.१४ ।। -
रत्न.-चक्षुः, इति. व्याख्या-चक्षुःसंयममात्रादिति पूर्ववद्, अत्र भावचक्षुरिन्द्रियहीना गृह्यन्ते, उपलक्षणात्-एकेन्द्रियास् त्रीन्द्रियपर्यन्ताः, तेऽपि गृह्यन्ते, तेऽपि द्रव्य-भावचक्षुरिन्द्रियविकला इष्टा-ऽनिष्टानि रूपाणि त्यजन्ति, रूपालोकान्-रूपदर्शनानि के न त्यजन्ति ?, अपि तु सर्वेऽपि त्यजन्ति, चेति विशेषे, इष्टा-ऽनिष्टेषु युवति-जरतीरूपेषु राग-द्वेषौ त्यजन् सन् मुनिः स्यादिति । अत्र केषुचिदादर्शेषु पूर्वं घ्राणसंयममात्रेणेति दृश्यते, तन्न जाने केन हेतुनेति, परमनुक्रमस्त्वयमेव घटत इति ।।१४.१४।। [४३६] जिह्वासंयममात्रेण, रसान् कान् के त्यजन्ति न ? |
मनसा त्यज तानिष्टान्, यदीच्छसि तपःफलम् ।।१४.१५।। धनवि.-अथ जिह्वेन्द्रियसंवरमुपदेष्टुमाह -
'जिह्वा संयम' इति, जिह्वासंयम-मात्रेण-केवलरसनेन्द्रियसंवरेण एकेन्द्रिया जन्तवः, के कान्-इष्टाननिष्टान् वा रसान् न त्यजन्ति ? | अथ तात्त्विकं जिह्वासंयमं दर्शयन्नुत्तरार्द्ध वक्ति-तदा तानिष्टान् रसान् प्राप्तान् मनसासमतापरिणतचेतसा त्यज, यदि चेत् तपःफलं-तपसः फलं मोक्षम्, इच्छसि ||१४.१५।।
रत्न:-जिह्वासंयममात्रेण..इति. व्याख्या-पूर्ववदत्रोपहतभावरसनेन्द्रिया ग्राह्याः, उपलक्षणादेकेन्द्रिया अपि ग्राह्याः, तेऽपि द्रव्यभावरसनेन्द्रियविकला इति, शुभाशुभरसान त्यजन्तीति, कान रसान् ? - शुभाशुभान शर्करा-क्रियाकर्तसम्बन्धिनो १. अत्र धनवि. टीकायामनुसृत्य क्रमः परिवर्तितोऽस्माभिः । २. करीयातुं इति सं. ।
૨૧