SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३०७ मिथ्यात्वादिसंवरोपदेशद्वारम् द्वीन्द्रियादस्तेऽप्यूयाः, किंलक्षणाः ? - यतोऽविरताः कायव्यापारासामर्थ्याद् यता इव यताः, 'तुः इति विशेषे, येषां यतानां-मनसा विरतानां शिवस्य-मोक्षस्य हेतु:-कारणं क्रिया-कायव्यापाररूपा वर्त्तते, तान् अ कायगुप्तान् कायगुप्तिमतः, स्तुवे इति, कायव्यापारवीर्ये परम्-अशुभं कायव्यापारं निरुध्य स्थितान् स्तुवे इत्यर्थः ।।१४.११।। [४३३] श्रुतिसंयममात्रेण, शब्दान् कान् के त्यजन्ति न ? | इष्टानिष्टेषु चैतेषु, रागद्वेषौ त्यजन् मुनिः ।।१४.१२।। धनवि.-अथेन्द्रियपञ्चकसंवरोपदेशे पूर्वं श्रोत्रेन्द्रियसंवरमुपदिशन्नाह - 'श्रुति०' इति, श्रुतिसंयममात्रेण-श्रोत्रेन्द्रियसंवरमात्रेण, कान्-इष्टानिष्टान्, शब्दान्-श्रोत्रेन्द्रियग्राह्यान् के-एकेन्द्रियादयश्चतुरिन्द्रियान्ता अनेकमूक-बधिरपञ्चेन्द्रियाश्च न त्यजन्ति ? - न परिहरन्ति, अपि तु सर्वेऽपि त्यजन्तीत्यर्थः | च पुनर्-इष्टानिष्टेष्वेतेषु शब्देषु राग-द्वेषौ-प्रीत्यप्रीतिलक्षणौ त्यजन्-परिहरन् मुनिर्भवतीति ।।१४.१२।। रत्न.-अथ मनो-वचः-कायसंवरं निरूप्य पञ्चेन्द्रियसंवरमाह-तत्रापि प्रथम श्रोत्रेन्द्रियमाश्रित्य कथयति - श्रुतिसंयममात्रेण..इति. व्याख्या-श्रुत्योः-कर्णयोः संयमो-रोधो भावकर्णेन्द्रियजय इत्यर्थः, केवलं श्रुतिसंयमः श्रुतिसंयममात्रं, तेन श्रुतिसंयममात्रेण, के ? - प्राणिनः अकर्णादयः, कान् शब्दान् ? मनोज्ञा-ऽमनोज्ञलक्षणान् न त्यजन्ति ?, अपि तु सर्वेऽपि त्यजन्ति, अत्रोपलक्षणाद् एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियादयोऽपि ज्ञेयास्तेऽपि द्रव्यभावोत्रेन्द्रियविकला इति मनोज्ञा१. 'शिवहेतुः क्रिया येषां कायगुप्तांस्तु तान् स्तुवे. इति २४९ तमस्य उत्तरार्धे पाठोऽयं प्रतौ मूलत्वेन गृहीतः ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy