________________
२९४
श्रीअध्यात्मकल्पद्रुमे [४२०] अंतोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुम्मि ।
छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ।। [३] ।। [४२१] अंतोमुहत्तपरओ चिंता झाणंतरं च हुज्जाहि ।
सुचिरं पि हुज्ज बहुवत्थुसंकमे झाणसंताणो ।। [४] || [४२२] १ अटं. २ रुद. ३ धम्मं. ४ सुक्कं. झाणाइं, तत्थ अंताई ।
निव्वाणसाहणाइं भवकारणमट्ट-रुद्दाइं ।। [५] ।। इत्यादिगाथास्वरूपं सप्रपञ्चं श्रीआवश्यकवृत्तिगतध्यानशतकवृत्तितोऽवसेयं, विस्तरभयान्नेह प्रतन्यते इति ।।१४.४।।
रत्न.-मनोऽप्रवृत्तिमात्रेण..इति. व्याख्या-मनसोऽप्रवृत्तिः-अप्रवर्त्तनं, केवलमप्रवृत्तिरप्रवृत्तिमात्रं, तेन मनोऽप्रवृत्तिमात्रेण, एकेन्द्रियादिषु ध्यानम्-आर्त्त-रौद्रधर्म-शुक्लरूपं नास्ति, आदिशब्देन द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिया-ऽसंज्ञि-पञ्चेन्द्रियाऽऽदिग्रहणं, तेन कारणेन, तुरिति विशेषे, तन्मनः प्रति प्राप्य धर्महेतुत्वाद् धर्म शुक्लपुद्गलोपमानत्वाच्छुक्लं, धर्मं च शुक्लं च धर्म-शुक्ले, ताभ्यां हेतुभ्यां मनसः स्थैर्य-मनोनिरोधलक्षणं भजन्तीति धर्मशुक्लमनःस्थैर्यभाजः, तान् प्रति वयं स्तुमः-स्तुतिविषयीकुर्मः, किंलक्षणान् ? - ध्यायन्तीति ध्यायिनस्तान् ध्यायिनो, ध्यानवत इत्यर्थः ।।१४.४।।
[४२३] सार्थं निरर्थकं वा यन्
मनः सध्यानयन्त्रितम् । विरतं दुर्विकल्पेभ्यः,
पारगांस्तान् स्तुवे यतीन् ।।१४.५।। धनवि.-अथ मनःस्थैर्याधिकाराऽऽगतं धर्मध्यानस्वरूपं निरूपयन् धर्मध्यायिनः स्तौति -
'सार्थम्' इति, यन्मनो-येषां चित्तं, सार्थ-सफलं, वा-अथवा निरर्थकं-निष्फलं,