________________
२९०
श्रीअध्यात्मकल्पद्रुमे ___ 'प्रसन्नचन्द्र.' इति, प्रसन्नचन्द्रराजर्षेः-श्रीसोमचन्द्रनृपसूनोर्मनःप्रसर-संवरौचित्तप्रवृत्ति-निवृत्ती नरकस्य-निरयस्य, अपि-पुनः शिवस्य-मोक्षस्य क्षणादपिस्तोककालादपि हेतुभूतौ-हेतू एव हेतुभूतौ भवतः-स्याताम् । प्रसन्नचन्द्रराजर्षिचरितं चेदम् -
"क्षितिप्रतिष्ठितपुरं, जगच्चित्तप्रतिष्ठितम् । प्रसन्नचन्द्रस् तत्रासीत्, पृथिवीपाकशासनः ।।१।। श्रीवीरः समवासार्षीत् तत्र नन्तुमगान्नृपः । श्रुत्वा धर्मं प्रबुद्धः सन्, सुतं राज्ये न्यवेशयत् ।।२।।
प्रव्रज्याऽऽदाय शिक्षे द्वे, स गीतार्थोऽभवन्मुनिः । अन्यदा जिनकल्पं स, प्रतिपित्सुमहामुनिः ।।३।।
सप्तभिर्भावनाभिस्तं, भावयन् धर्मतत्त्ववित् । राजगृहश्मशाने स, कायोत्सर्गेण तस्थिवान् ।।४।। ...
तदा तमोरिपुर्वीरस् तत्रापि समवासरत् । वन्दारुर्निर्ययौ लोकः, कोकवत् प्रीतमानसः ।।५।।
क्षितिप्रतिष्ठितात तत्रायातौ द्वौ च वणिग्वरौ । प्रसन्नचन्द्रराजर्षि, दृष्ट्वा मार्गसमीपगम् ।।६।।
एकोऽभाषिष्ट 'वृद्धः सन्, धन्यात्मा प्रभुरेष नः । राज्यलक्ष्मी परित्यज्य, स्वीचकार तपःश्रियम् ।।७।।
द्वितीयः स्माह धन्यत्वं, कुतोऽमुष्य महामुनेः ? | योऽसंजातबलं पुत्रं, कृत्वा राज्येऽग्रहीद् व्रतम् ।।८।।
१. बुद्धः - मु० ।