________________
१४. मिथ्यात्वादिसंवरोपदेशाधिकारा
[४११] मिथ्यात्व-योगा-ऽविरति-प्रमादानात्मन् ! सदा संवृणु सौख्यमिच्छन् । असंवृता यद्भवतापमेते,
सुसंवृता मुक्तिरमां च दद्युः ।।१४.१ ।।
धनवि.—अथानन्तरद्वारे केवलसर्वविरतिधारियतियोग्यमुपदेशमुपदिश्य सामान्यतः सर्वविरतिधारि-देशविरतिधारिणोर्योग्यमुपदेशमुपदेष्टुं मिथ्यात्वादिसंवरोपदेशद्वारं
दर्शयन्नाह
अथ सामान्यतो यतीन् विशेष (तो) धर्मस्थगृहिणश्चाश्रित्य मिथ्यात्वादि-संवरोपदेशः धनवि.—अथ-सामान्य इति, अथ इत्यानन्तर्ये सामान्यतः साधारण्येन यतीन्संयमिनः, च पुनर्विशेष-धर्मस्थगृहिणः- सम्यक्त्वमूलद्वादशव्रतधारिश्रावकान्, आश्रित्य - उद्दिश्य मिथ्यात्वादि-संवरोपदेशो-मिथ्यात्वा-ऽविरति-कषाय- -योगनिरोधोपदेशः,
८
प्रदर्श्यते इति शेषः ।
-
अथास्मिन् द्वारे पूर्वोद्दिष्टत्वेन पूर्वं मिथ्यात्वादिसंवरमुपदिशन्नाह
'मिथ्यात्व.' इति, हे आत्मन् ! त्वं सौख्यमिच्छन्- सुखमभिलषन्, मिथ्यात्वयोगा-ऽविरति-प्रमादान् सदा सर्वकालं संवृणु-सङ्कोचविषयीकुर्वित्यन्वयः, तत्र मिथ्यात्वं च [संबोधप्रकरणे]
-
[ ४१२] "दुविहं लोइयमिच्छं देवगयं गुरुगयं मुणेयव्वं । लोउत्तरं च दुविहं देवगयं गुरुगयं चेव" ।। [१०२]।।
I
अथवा मिथ्यात्वं पञ्चविधम्, यदाह ।।
[४१३] 'चउभेयं मिच्छत्तं'
.................................
[४१४] अभिगहियमणभिगहियं च तह अभिनिवेसियं चेव । संसइयमणाभोगं मिच्छत्तं पञ्चहा होइ ।। [ १०५ ] इत्यादि