________________
यतिशिक्षोपदेशद्वारम् पदिशन्नाह.
यस्य क्षणोऽपि ..इति व्याख्या - हे यते ! यस्य संयमजीवितस्य क्षणोऽपि - मुहूर्तोऽपि घटिकाद्वयमपि, सुरधाम्नः स्वर्गस्य सुखानि प्रति ददाति, कथं ? यावत्, का? कर्मतापन्नाः, 'भामा' इत्युक्ते सत्यभामा इत्यादिवत्, पल्यानांपल्योपमानां कोटीः प्रति, कियती ? - द्विनवतिं द्वाभ्यामधिका नवतिर्द्विनवतिस्तां, किंलक्षणाम? अधिकां लक्षादिभिः, अङ्कुरित्यर्थः, यदुक्तमागमे
-
-
दिशति
·
-
[४०८] "बाणवई कोडीओ लक्खा गुणसट्ठि सहस्सपणवीसं ।
नवसय पणवीसाए सतिहा अडभागपलियस्स [ सं प्र. १२३१ ] ।।" इति,
हे अधम ! तत् संयमजीवितं त्वं किं हारयसि ? अपि तु मा हारय, 'हा हा' इति खेदे, हे प्रमत्त ! - हे प्रमादिन् ! पुनरस्य संयमजीवितस्य कुतस्तवाप्तिः-लाभो वर्त्तते ?, अपि तु नास्तीति दुष्प्रापा चेति ।। १३.५६ । ।
-
[४०९] नाम्नाऽपि यस्येति जनेऽसि पूज्यः, शुद्धात् ततो नेष्टसुखानि कानि ? | तत् संयमेऽस्मिन् यतसे मुमुक्षो !, ऽनुभूयमानोरुफलेऽपि किं न ? ।।१३.५७ ।।
धनवि.—अथैतद् द्वारमुपसंजिहीर्षुर्मङ्गलार्थं संयमाराधनायां शुभफलं दर्शयन्नुप
२८५
·
1
'नाम्नाऽपि' इति, यस्य संयमस्य नाम्नाऽपि संयमवानित्यभिधानेनापि, जनेलोके, इति-अमुना प्रकारेण वस्त्र - पात्रादिभिः पूज्यः - अर्चनीयोऽसि ततः शुद्धाद्भावसंयमात्-इष्टसुखानि कानि न भवन्ति ?, अपि तु सर्वाण्यभिलषितसुखानि स्वर्गापवर्गराज्यादीनि भवन्तीत्यर्थः; तत्-तस्मात् हे मुमुक्षो ! हे मुने ! अनुभूयमानोरुफलेऽपि-प्रत्यक्षोपलभ्यमानमहाफलेऽपि अस्मिन् प्रसिद्धे संयमेचारित्रे किं न यतसे ? कथं नोद्यमं कुरुषे ।।१३.५७ ।।
-