________________
यतिशिक्षोपदेशद्वारम्
२७९ 'प्राप्याऽपि' इति, हे भिक्षो ! - हे साधो ! यद्-यस्मात् कारणाद्, दुरापंदुर्लभं चेदं पञ्चमहाव्रतादिरूपेण प्रत्यक्षं, चारित्रं-संयममार्गं प्राप्यापि लब्ध्वाऽपि स्वदोषजैः-स्वकीयरागद्वेषलक्षणदोषजन्यैर्विषय प्रमादैः प्रसिधैर्, भवाम्बुधौ-संसारसागरे पतिता-पतनशीलोऽसि, तत्-तस्माद् अनन्तकालं यावद्, दुःखैः-चातुर्गतिकैः प्रतिकूलवेद्यैः हतोऽसि; अतस्त्वां धिगस्त्विति ।।१३.५१।।
रत्न.-अथ चारित्रस्य दुष्प्रापतया विषय-प्रमादानां प्रकारान्तरेण त्यागमुपदिशनाह -
प्राप्यापि..इति. व्याख्या-हे भिक्षो ! इदं दुरापं दुष्प्राप्यं चारित्रं प्राप्यापि, चेद्-यदि त्वं विषयैः प्रमादैश्च हेतुभिर्, धिग्-निन्दितं यथा स्यात् तथा, भवाम्बुधौ-संसारसमुद्रे पतिताऽसि पतिष्यसि, तत्-तीनन्तं कालं यावत् त्वं दुःखैर्हतोऽसि, विषयप्रमादैः किंलक्षणैः? - स्वस्य-आत्मनो दोषाः, तेभ्यो जायन्ते इति स्वदोषजास्तैरिति ।।१३.५१।। [३९४] कथमपि समवाप्य बोधिरत्नं,
युगसमिलादिनिदर्शनाद् दुरापम् । कुरु कुरु रिपुवश्यतामगच्छन्,
किमपि हितं लभसे यतोऽर्थितं शम् ।।१३.५२ ।। धनवि.-अथानन्तरोक्तामेव चारित्रस्य दुरापतां दृष्टान्तप्रदर्शनेन दृढयन्नुपदिशति'कथमपि' इति, कथमपि-कथञ्चित् कष्टसहनजनिता-ऽकामनिर्जरादियोगाद्, युगसमिलादिदृष्टान्तात् सिद्धान्तप्रसिद्धाद् दुरापं-दुर्लभं बोधिरत्न-जिनधर्मप्राप्तिरूपं मणिविशेष, समवाप्य-प्राप्य रिपुवश्यतां-वैरिवशताम्, अगच्छन्-अनाप्नुवन्, किमपि हितं-किञ्चित् सुखसाधनं कुरु कुरु - साधयेरिति; यतो हितसाधनाद् अर्थितंप्रार्थितं शं-सुखं मोक्षलक्षणं लभसे अत्र बोधिकारणानि -
१. रत्नवि० टीकाप्रतौ पदमिदं मूलत्वेनापि गृहीतमस्ति 'चेद्' विषय० ।