SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७७ यतिशिक्षोपदेशद्वारम् च सावद्यकर्मचिन्तनं शस्त्रीस्थानीयं, संयमजीवितं च प्राणस्थानीयमिति दृष्टान्तदान्तिकयोजना ।।१३.४९ ।। रत्न.-पुनरेतदेव विवृणोति - कथं महत्त्वाय..इति. व्याख्या-हे यते ! त्वं सङ्घलोकेऽपि-श्रावकश्राविकालक्षणेऽपि कथं सावद्यमिच्छसि ? - वाञ्छसि, कस्मै ? - महत्त्वाय, 'एते यदि चैत्यादि कुर्वन्ति, तदा मम महत्त्वं वर्द्धते, अस्मिन् सतीदं चैत्योपाश्रयसाधर्मिकवासल्यादिकं जातम् इत्यर्थः । वा-अथवा ममत्वतः-ममत्वबुद्ध्या पूर्वमिदं मदीयं गृहमासीत, तेन मदीयमेतच्चैत्यं भवतु, अथवा मया गृहिदशायां चैत्यादि कारितं, तेन मदीयं चैत्यादि सज्जीकारयाम्येव'इतिलक्षणतः, ननु पुण्यकार्यं कथं सावधं भवति ?-इति दृष्टान्तेनाह-हि यस्मात् कारणात्, हेममयी-सुवर्णविकारापि शस्त्री-असिधेनुरुदरे क्षिप्ता सत्यसून्-प्राणान् प्रति क्षणतःक्षणमात्रतः किं न क्षणोति ? - न हिनस्ति, अपि तु क्षणोति, एतत् सर्वमादेशदानेऽनधिकारित्वादसंयतिवद्, यथा तथा गृहस्थानां प्रवर्त्तनाकरणेन च सावद्यतयोक्तं, परं विधितयोपदिशतः सतः सावा नेति प्रतिभाति ।।१३.४९।। [३९२] रङ्कः कोऽपि जनाभिभूतिपदवीं त्यक्त्वा प्रसादाद् गुरोर् वेषं प्राप्य यतेः, कथञ्चन कियच्छास्त्रं पदं कोऽपि च । मौखर्यादिवशीकृतर्जुजनतादाना-ऽर्चनैर्गर्वभा गात्मानं गणयेन्नरेन्द्रमिव, धिग् गन्ता द्रुतं दुर्गतौ ||१३.५० ।। धनवि.-अनन्तरं समिति-गुप्तिशिक्षामुपदिश्यात्मगतौद्धत्यपरिहारार्थमुपदिशति'रङ्कः कोऽपि' इति, गृहस्थावस्थायां कोऽपि-अनिर्दिष्टनामा रङ्को-दरिद्रः पुमान् जनाभिभूतिपदवीं-जनेभ्योऽभिभूतेः-पराभवस्य पदवी-पद्धतिं विषयतामित्यर्थः, त्यक्त्वा-परिहृत्य गुरोः प्रसादाद्-गुरुकृपावशात् कथञ्चन-केनचिदुपायेन यतेःमुनेर्वेष-रजोहरणादिलिङ्गं प्राप्य-अधिगत्य, मौखर्यादिवशीकृतर्जुजनतादानार्चनैर्गर्वभाग मदवान्, आत्मानं-स्वं नरेन्द्रमिव-राजानमिव गणयेत्-चिन्तयेत्, च पुनः, कोऽपि
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy