________________
यतिशिक्षोपदेशद्वारम
२७५ तेषां-गृस्थानां पापैर्भवे-संसारे भ्रमिताऽसीति, मुधा गृहस्थेषु ममत्वं, तेषां च तप्तिं मा कृथा इत्यर्थः ।।१३.४७ ।।
रत्न.-'त्यक्त्वा गृहम्' इति, व्याख्या हे ऋषे ! त्वं स्वं-स्वकीयं गृहं त्यक्त्वा, परेषां-गृस्थानां, गेहानां-गृहाणां चिन्तया सुख-दुःखादिचिन्तनरूपया, तप्तस्य सतोऽपि, नामेति कोमलामन्त्रणे, तव को गुणो वर्त्तते ?, अपि तु न कोऽपीत्यर्थः, स्वं गृहं त्यक्त्वा बहूनां गृहाणां चिन्ताकरणं विडम्बनैवेति, ततस्तवात्र-इहलोके केवलं यतिवेषतः आजीविका-उदरभरणरूपा आस्ते-वर्त्तते, तुरिति विशेषे, प्रेत्य-परभवे सु-दुर्गतिः-अतिशयेन दुर्गतिः सुदुर्गति] दुर्निवारावारयितुं दुःशक्या'-इत्यर्थः ।।१३.४७ ।।
[३९०] कुर्वे न सावधमिति प्रतिज्ञां,
वदन्नकुर्वन्नपि देहमात्रात् । शय्यादिकृत्येषु नुदन् गृहस्थान्,
हृदा गिरा वाऽपि कथं मुमुक्षुः ? ||१३.४८।। धनवि.-अथ कायगुप्तिमतामपि स्वार्थं सावचे चिन्तने भाषणे च दोषं दर्शयन्नुपदिशति -
'कुर्वे न सावद्यम्' इति, अहं सावधं-सपापं कर्म न कुर्वे "करेमि भंते ! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि जावज्जीवाए" इत्यादिपाठादिना, इति प्रतिज्ञाम्-अङ्गीकारं वदन्-मनःपूर्वं वचसा प्रतिपादयन्, देहमात्रात्-केवलकायात् सावधं योगम्, अकुर्वन्नपि शय्यादिकृत्येषु-उपाश्रयादिकार्येषु गृहस्थान्-सागारिकान् हृदा-मनसा गिरा-वाचा नुदन्-प्ररेयन्, कथं ? - केन प्रकारेण मुमुक्षुः-सत्यवक्ता यतिरसि-भवसीति ।।१३.४८।।
रत्न:-अथेतिहेतोस्त्वं कायेन मुमुक्षुरसि, न तु मनसा वाचा, इति यतिनं
ज्ञापयन्नाह
१. दुःशक्ता० मु० ।