________________
२७२
श्रीअध्यात्मकल्पद्रुमे अतिशयेनाऽपि अणु, अणीयः, कष्टं-शारीरं दंश-मशक-मलादिजनितं, किं न सहसे ? - किं न क्षमसे ||१३.४४।। रत्न.-अथ महत्कष्टसहना-ऽसामर्थ्य सति प्रसङ्गागतकष्टसहनमुपदिशति
महर्षय इति. व्याख्या-केऽपि महर्षयः पूर्वं श्रीभद्रबाहुस्वामिप्रव्राजितचतुर्महेभ्यपुत्राद्याः शीता-ऽऽतपादिसोढारः, उदीर्यापि उग्रा-ऽऽतप-शीतादीन्यपि निर्जरार्थं सहन्ति-क्षमन्ते, हे भिक्षो ! त्वं प्रसङ्गागतमणीयोऽपि कष्टं कदाचित् क्षुत-तृषा-शीता-ऽऽतपादिकं किं न सहसे ?, अपि तु सहस्व, किं कुर्वन् सन्? - शिवं-मोक्षमिच्छन् कथमपि, तच्छिवं कथं प्राप्स्यसीति ।।१३.४४।। [३८५] यो दान-मान-स्तुति-वन्दनादिभिर्
न मोदतेऽन्यैर्न तु दुर्मनायते । अलाभ-लाभादिपरीषहान् जयन्,
यतिः स तत्त्वादपरो विडम्बकः ||१३.४५।। .. धनवि:-अथ परीषहसहने एव तत्त्वतो यतिस्वरूपं भवति-इति दर्शयन्नुपदिशति
'दान-मान०' इति, यः पुमान् दान-मान-स्तुति-वन्दनादिभिः प्रसिधैः, आदिपदात् पादसंवाहनादिभिः, न मोदते-न हृष्यति, तु पुनर्, अन्यैः-तत्प्रतिपक्षभूतैरप्राप्तिकर्करा-ऽऽहनन-गालिप्रदान-तिरस्कारादिभिर्न दुर्मनायते-अदुर्मना दुर्मना भवतीति, क्यङि दुर्मनायते इति साधुः, किं कुर्वन् ? - अलाभ-लाभादिपरीषहान्, [३८६] १-'खुहा २-पिवासा ३,४-सी उण्हं ५-दंसा ६-चेला ७-रइ ८-त्थिओ । ९-चरिया १०-निसीहिया ११-सिज्जा १२-अक्कोस १३-वह १४-जायणा ।।
[न.त.भाष्य.८६] ।।
१. द्वयोष्टीकयोः 'जयन्' इति विवृतम्, रत्न० टीकाप्रतौ तु 'जयन्' पदं मूलत्वेनापि गृहीतम् । अस्माभिष्टीकामतुसृत्य 'जयन्' पदं मूलत्वेन स्वीकृतम् ।