SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५२ श्रीअध्यात्मकल्पद्रुमे धर्मोपकृतिच्छलाद्-धर्मोपकरणमिषेण शय्योपधिपुस्तकादेः-वसति-वस्त्र-पात्रज्ञानोपकरणादेस्,-तं परिग्रहं, किं करोषि ?, हि यतः कारणाद्, गरो-विषं नामान्तरतोऽपि-नामान्तरेण प्रतिपादितोऽपि हन्ता-मारयिता भवतीति; भावार्थस्त्वयम्यथा मधुरादिनामान्तरेण प्रतिपादितो गरो वत्सनागादिर्हन्ता भवति तथा मूर्छया शय्यादिपरिग्रहो धर्मोपकरणमितिनाम्नाऽपि हन्ता भवतीति ।।१३.२४ ।। रत्न.-अथ गृहादिपरित्यागीभूय बहुधर्मोपकरणरक्षणेन परिग्रही किं भवसीत्याहपरिग्रहम्..इति. व्याख्या-हे मुने ! 'त्व गृहादेः परिग्रहं व्यजहाः-अत्याक्षीः. नुर्वितर्के, तत्-तर्हि धर्मोपकृतिच्छलाद्-धर्मोपकरणमिषतः शय्योपधिपुस्तकादेः, तं परिग्रहं किं करोषि ?, शय्योपधिपुस्तकाद्यपि अधिकं निरर्थकं च ममतया रक्षितं सत् परिग्रह एवेति भावः, तत्रार्थे दृष्टान्तमाह-हि यस्भात् कारणात्; नामान्तरतोऽपि गरो-विषं, हन्ता-मारकः, विषस्य गुड इत्यादिनामान्तरन्यासेऽपि विषं हन्त्येवेति, अधिकस्य ममत्वेन रक्षितस्य शय्योपधिपुस्तकादेः परिग्रहत्वेन परिग्रहस्य गरोपमानं, सोऽपि त्वां दुर्गतौ प्रक्षेप्तेत्युपनयः ।।१३.२४ ।। [३६०] परिग्रहात् स्वीकृतधर्मसाधना ऽभिधानमात्रात् किमु मूढ ! तुष्यसि ? | न वेत्सि हेम्नाऽप्यतिभारिता तरी, निमज्जयत्यङ्गिनमम्बुधौ द्रुतम् ।।१३.२५।। धनवि.-अथ धर्मोपकरणबाहुल्यलक्षणपरिग्रहोऽनिष्टफलाय न भवतिइत्याशङ्कायामुपदिशति - 'परिग्रहात्' इति, हे मूढ ! स्वीकृतधर्मसाधना-ऽभिधानमात्रात् परिग्रहात्, किमु प्रश्ने-किं तुष्यसि ?, अत्र स्वीकृतम्-अङ्गीकृतं, धर्मसाधनमित्यभिधानमात्रंनाममात्रं यस्य स तथा तस्मात् तथेति परिग्रहस्य विशेषणं, त्वमिति न वेत्सि? - न जानासि, अत्र'इति'इत्यध्याहार्य, हेम्नाऽपि-सुवर्णेनाप्यतिभारिता-अतिशयेन १. 'त्वं' इति पदं मूलत्वेनापि गृहीतम् । २.०स्य परिग्रहस्य गरो० मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy