SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ यतिशिक्षोपदेशद्वारम् 'दान-मान' इति, दानं च वस्त्रा -ऽऽहारादिवितरणं, मानं च - सौवर्णपुष्पादिभिः पूजनमभ्युत्थानादिकं वा, नुतिश्च- 'गोयमसोहम'..इत्यादिभिः स्तुतिर्वन्दना चद्वादशावर्त्तादिका, तत्र पराः दान- मान - नुति - वन्दनापराः, तैः तथाभूतैर्जनैर्हेतुभूतैस्त्वं मोदसे-हृष्यसीति किंभूतैर्जनैः ? - निकृतिरञ्जितैः- निकृतिः - मलिनवेषवहनादिलक्षणा माया, तया रञ्जिताः-स्ववशीकृतास्तैः, तथा तु पुनस् - त्वमिति नावैषि - न जानासि, अत्रेतीत्यध्याहार्यम्, चेद्यदि तव कोऽपि सुकृतस्य पुण्यस्य लवो-लेशो वर्त्तते सोऽपि सुकृतस्य लवस्तैर्जनैर् ' हि 'इति निश्चितं लुट्यते - निःसत्ताकीक्रियते ।।१३.२१।। रत्न.–अथ दान-माना-ऽऽदिकरणैस्तवेषदपि 'सुकृतं ते गृह्णन्तीति ज्ञापयतिदान-मान..इति. व्याख्या - हे मुने ! त्वमेवविधैर्जनैर्मोदसे- हर्षं प्राप्नोषि किंलक्षणैः ? दानमन्नवस्त्रपात्रादीनां, मानः- पूजा, नुतिः - स्तुतिर्वन्दना, वन्दनकादिदानेन द्वन्द्वसमासे, ताः तासु परा- आसक्तास्, तैः पुनः किंलक्षणैः ? - निकृत्यामायया तव वेषोपदेशादिकया रञ्जिता - रागमापन्नास्तैः पुनस्त्वं नावैषि - न जानासि, किमित्याह-चेद्-यदि तव सुकृतस्य - पुण्यस्य कोऽपि लवो वर्त्तते, सोऽपि तैर्हि निश्चतं लुट्यते-आच्छिद्य गृह्यते, अधिकार्जने का वार्त्ता ?, सोऽपि तव यातीत्यर्थः, वृद्धिमिच्छतो मूलक्षितिर्जायते इति ।। १३.२१ ।। - [३५७] भवेद् गुणी मुग्धकृतैर्नहि स्तवैर् २४९ न ख्याति - दाना-ऽर्चन-वन्दनादिभिः । विना गुणान् नो भवदुःखसंक्षयस् ततो गुणानर्जय, किं स्तवादिभिः ? ।।१३.२२।। धनवि . – अथानन्तरोक्तोपदेशनिर्गलितार्थं दर्शयन्नुपदिशति 'भवेद् गुणी' इति, मुग्धकृतैः - भद्रकजननिष्पादितैः स्तवैः- आरोपितगुणप्रशंसनैर्, नहि कश्चित् पुमान् गुणी- गुणवान् भवेत् स्यात्, च पुनः ख्याति - दाना-ऽर्चन१. सुकृतं यत् तत् ते - मु० । —
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy