SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ यतिशिक्षोपदेशद्वारम् २४५ द्यनुष्ठानपूर्वकं तपश्चरणं तपश्च- नमस्कार - पौरिष्यादि - षाण्मासिकपर्यन्तं कालं यावदाहारादित्यागः, श्रुतं च- अष्टप्रवचनमातृज्ञानाद् द्वादशाङ्गीज्ञानादिपर्यंतं ज्ञानं, तान्यादौ यस्य तत् तथेति । तथापि - सिद्ध्यभावेऽपि क्रियाद्यभावेऽपि च त्वम्, अहङ्कारकदर्थितः-अभिमानविडम्बितः ख्यातीच्छया-'अयं गुणवान्' इति प्रसिद्धिवाञ्छया, किं प्रश्ने, मुधा- वृथा ताम्यसि ? - खिद्यसे इत्यर्थः, किं मुधा स्तवार्चादि वाञ्छसीत्यर्थः; अत एव त्वां धिगस्त्विति, भावार्थस्तु तव सिद्ध्यादिगुणरहितत्वेन निर्गुणस्य प्रतिग्रहऋणमग्नस्य कथमुद्धाारो भवितेति ?, अहं गुणवानिति कोऽहङ्कार इति ? ।।१३.१७।। रत्न.–अथ तादृगतिशायिगुणान् विना, अहङ्कारवत्तया ख्यातिं किं वाञ्छसीत्युपदिशति – " न काऽपि सिद्धिः ..इति व्याख्या - हे मुने ! त्वयि अष्टसिद्धीनां मध्ये कापि सिद्धिर्नास्ति तथा क्रिया- शीतातपादिसहनरूपा, योगो मनो - वाक-कायानां शुभप्रवृत्तिलक्षणः, तपो-बाह्याभ्यन्तरभेदाद् द्वैधं श्रुतं श्रुतज्ञानमेकादशाङ्गीलक्षणं, तान्यादौ येषां तत्, - क्रिया-योग- तपः च श्रुतादि, आदि शब्देनात्र जिनप्रवचनोन्नतिकारणं राजप्रतिबोधादयो गुणा गृह्यन्ते, किं लक्षणं ? अतिशेते इत्येवंशीलमतिशायि, अतिशायिक्रियादिमतोऽहङ्कारोऽपि युक्तः, यथा पयस्विन्या धेन्वा लत्ताप्रहारोऽपि युक्त इति, तदपि नास्ति, तथाप्यहङ्कारेण कदर्थितस्त्वं ख्यातेः-प्रसिद्धेरिच्छया - वाञ्छया धिग् मुधा-वृथा किं ताम्यसि ? - किं दुःखितो भवसि, अपि तु मा ताम्य, धिगिति तिरस्कारार्थमव्ययम् ।।१३.१७ । । [३५३ ] हीनोऽप्यरे भाग्यगुणैर्मुधाऽऽत्मन् !, वाञ्छन् स्तवार्चाद्यनवाप्नुवांश्च । ईर्ष्यन् परेभ्यो लभसेऽतितापमिहापि याता कुगतिं परत्र ।।१३.१८।। १. मध्ये न कापि सिद्धिरस्ति. मु० । -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy