SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ यतिशिक्षोपदेशद्वारम् २४३ निपतन्-निमज्जन् स्वभक्तान्-स्वकीयाराधकान्, अपि कथ ? - केन प्रकारेण त्वं तारयिष्यसि-पारं प्रापयिष्यसि; च पुनः, शिवार्थिनो-मोक्षार्थिनः ऋजून्-सरलचित्तान् जनान्, स्वार्थ-स्वसुखार्थं स्वाहाराद्यर्थं वा, इति-अनया रीत्या प्रतारयन्-वञ्चयन् स्वतः-आत्मसकाशात् प्रमादाचरणैः, च पुनर्, अन्यत:-परतः शिवार्थिवञ्चनादिना जनितेन, अंहसा-पापेन विलुप्यसे-'वि लुप् मोहने' [है.धा.११३५] इति धातोः कर्मणि विलुप्यसे, इति साधुः, सद्गतिस्त्रीसङ्गायोग्यो भविष्यसीत्यर्थः ।।१३.१५।। रत्न.-अथ परमोपकारनिष्णातः कविरेतदेवोपदिशति - स्वयं प्रमादैर् इति. व्याख्या-हे वेषविडम्बक ! स्वयं-आत्मना प्रमादर्भवाम्बुधौ निपतन् स्वभक्तानपि त्वं कथं तारयसि ?, अपि तु न तारयिष्यसि, इति हेतोस्त्वं स्वतोऽन्यतपरेभ्यश्चांहसा-पापेन विलुप्यसे, त्वं किं कुर्वन् ? - प्रतारयन्वञ्चयन्, 'कान् ? - जनान्, किंभूतान् ? - ऋजून्-निष्कपटान्, पुनः किंभूतान् ? - शिवं-मोक्षमर्थयन्ते इत्येवं-शीलास्तान्, किमर्थं ? - स्वार्थ-स्वस्मै, आहारोपधिपुस्तकशय्यापुत्रादिग्रहणलक्षण-स्वार्थायेत्यर्थः ।।१३.१५ ।। [३५१] गृह्णासि शय्या-ऽऽहृति-पुस्तकोपधीन्, सदा परेभ्यस्तपसस् त्वियं स्थितिः । तत् ते प्रमादाद् भरितात् प्रतिग्रहै, ऋणार्णमग्नस्य परत्र का गतिः ? ||१३.१६ ।। धनवि.-उक्तार्थमेव प्रकारान्तरेण दर्शयन्नुपदिशति - 'गृह्णासि' इति, शय्याहृति-पुस्तकोपधीन् सदा-सर्वकालं परेभ्यो-भक्तेभ्यस्त्वं गृह्णासि-लासि, तत्र शय्या च-वसतिः, आहृतिश्च-आहारः, पुस्तकं चज्ञानोपकरणादि, उपधिश्च-वस्त्र-पात्रादिः, तान् शय्याहृतिपुस्तकोपधीन्-इति, तु पुनस्तपसो बाह्याभ्यन्तरभेदभिन्नस्येयं-तदकरणलक्षणा प्रत्यक्षोपलभ्यमाना स्थिति:व्यवस्था वर्तते; तत्-तस्मात् कारणात् ते-तव प्रतिग्रहै:-अन्नादिग्रहणैरितात्१. कान् ? - भक्तान् जनान् मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy