________________
यतिशिक्षोपदेशद्वारम्
धनवि.—अथानन्तरोक्तार्थमेव प्रकारान्तरेण विशेषतो दृढयति
‘आजीविकादि' इति, केऽपि महानुभावा जना, महतैव कृच्छ्रेण-गुरुतरकष्टेन धर्मान्-दानादिधर्मान् प्रतिक्रमण - पौषधादिधर्मान् वा सृजन्ति - कुर्वन्तीति जनाः किंलक्षणा: ? - आजीविका - जीवनोपायः, सा आदौ यासां ता, आजीविकादयस्ताश्च ता विविधा-नानाप्रकाराश्चाऽऽजीविकादिविविधास्ताश्च ता अर्त्तयश्च-आजीविकादिविविधार्त्तयः, ताभिर्भृशम् - अत्यर्थम् अनिशं च - निरन्तरम्, आर्त्ताः- पीडिताः, हे निर्दय ! हे दयारहित ! तेभ्योऽपि श्राद्धजनेभ्यः सर्वं वस्त्रपात्रादीष्टं वस्तु जिघृक्षसि-ग्रहीतुमिच्छसि च पुनः संयमे चारित्रे सप्तदशभेदे नो यतसे न यत्नं कुरुषे, अत्र तत इत्यध्याहार्यं तेन ततः कारणाद्, ही इति खेदे, त्वं कथं भविता ? केन प्रकारेण परभवे भविष्यसि ।।१३.१३ ।।
,
1
-
-
-
[३४९] आराधितो वा गुणवान्
२४१
1
रत्न.–पुनरेतदेव प्रकारान्तरेणोपदिशति
आजीविकादि..इति. व्याख्या - केऽपि श्रावकाः महता एव कृच्छ्रेण -कष्टेन, धर्मान्-दानप्रभृतीन् चतुरः, सृजन्ति-कुर्वन्ति, यतः किंलक्षणाः ? - आजीविकाउदरभरणमादौ यासां ताः आजीविकादयः, आदिशब्दाद् वस्त्र - पात्र - पुत्री - भगिनीपरिणयना-ऽऽदयो गृह्यन्ते, आजीविकादयश्च ता विविधार्त्तयश्च ताभिर्भृशम्अत्यर्थमनिशं-निरन्तरम्, ऋताः पीडिताः व्याकुला इत्यर्थः, हे निर्दय ! हे वेषधूर्त्तयते ! तेभ्योऽपि सर्वमिष्टं वाञ्छितं जिघृक्षसि - ग्रहीतुमिच्छसि च पुनस्, तेभ्यो गृहीतत्वाद् ऋणशुद्ध्यै संयमे चारित्रे न यतसे, ही इति पश्चात्तापे, त्वं कथं भविता ? - भविष्णुः परभवे इति पूर्वस्माद् ग्रायमिति ।। १३.१३ ।। स्वयं तरन्,
भवाब्धिमस्मानपि तारयिष्यति ।
श्रयन्ति ये त्वामिति भूरिभक्तिभिः,
फलं तवैषां च किमस्ति ? निर्गुण ! | १३.१४ ।। धनवि.-ननु श्राद्धेभ्योऽन्नादिग्रहणे श्राद्धा निस्तरिष्यन्ति, तन्निस्तरणजनितं